भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.109

10.109.1

॥6॥.
-र्व्_8:6।7-
(र्व्_10,109)
ते । अवदन् । प्रथमाः । ब्रह्म-किल्बिषे । अकूपारः । सलिलः । मातरिश्वा । वीळु-हराः । तपः । उग्रः । मयः-भूः । आपः । देवीः । प्रथम-जाः । ऋतेन

10.109.2

सोमः । राजा । प्रथमः । ब्रह्म-जायाम् । पुनरिति । प्र । अयच्छत् । अहृणीयमानः । अनु-अर्तिता । वरुणः । मित्रः । आसीत् । अग्निः । होता । हस्त-गृह्य । आ । निनाय

10.109.3

हस्तेन । एव । ग्राह्यः । आधिः । अस्याः । ब्रह्म-जाया । इयम् । इति । च । इत् । अवोचत् । न । दूताय । प्र-ह्ये । तस्थे । एषा । तथा । राष्ट्रम् । गुपितम् । क्षत्रियस्य

10.109.4

देवाः । एतस्याम् । अवदन्त । पूर्वे । सप्त-ऋषयः । तपसे । ये । नि-सेदुः । भीमा । जाया । ब्राह्मणस्य । उप-नीता । दुः-धाम् । दधाति । परमे । वि-ओमन्

10.109.5

ब्रह्म-चारी । चरति । वेविषत् । विषः । सः । देवानाम् । भवति । एकम् । अङ्गम् । तेन । जायाम् । अनु । अविन्दत् । बृहस्पतिः । सोमेन । नीताम् । जुह्वम् । न । देवाः

10.109.6

पुनः । वै । देवाः । अददुः । पुनः । मनुष्याः । उत । राजानः । सत्यम् । कृण्वानाः । ब्रह्म-जायाम् । पुनः । ददुः

10.109.7

पुनः-दाय । ब्रह्म-जायाम् । कृत्वी । देवैः । नि-किल्बिषम् । ऊर्जम् । पृथिव्याः । भक्त्वाय । उरु-गायम् । उप । आसते

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc