ऋग्वेदसंहिता, पदपाठ · अध्याय 10.110
॥7॥.
-र्व्_8:6।8-
(र्व्_10,110)
सम्-इद्धः । अद्य । मनुषः । दुरोणे । देवः । देवान् । यजसि । जात-वेदः । आ । च । वह । मित्र-महः । चिकित्वान् । त्वम् । दूतः । कविः । असि । प्र-चेताः
तनू-नपात् । पथः । ऋतस्य । यानान् । मध्वा । सम्-अञ्जन् । स्वदय । सु-जिह्व । मन्मानि । धीभिः । उत । यज्ञम् । ऋन्धन् । देव-त्रा । च । कृणुहि । अध्वरम् । नः
आजुह्वानः । ईड्यः । वन्द्यः । च । आ । याहि । अग्ने । वसु-भिः । स-जोषाः । त्वम् । देवानाम् । असि । यह्व । होता । सः । एतान् । यक्षि । इषितः । यजीयान्
प्राचीनम् । बर्हिः । प्र-दिशा । पृथिव्याः । वस्तोः । अस्याः । वृज्यते । अग्रे । अह्नाम् । वि । ओं इति । प्रथते । वि-तरम् । वरीयः । देवेभ्यः । अदितये । स्योनम्
व्यचस्वतीः । उर्विया । वि । श्रयन्ताम् । पति-भ्यः । न । जनयः । शुम्भमानाः । देवीः । द्वारः । बृहतीः । विश्वम्-इन्वाः । देवेभ्यः । भवत । सुप्र-अयणाः
॥8॥.
-र्व्_8:6।9-
आ । सुस्वयन्ती इति । यजते इति । उपाके इति । उषसानक्ता । सदताम् । नि । योनौ । दिव्ये । योषणेइति । बृहती इति । सुरुक्मे इतिसु-रुक्मे । अधि । श्रियम् । शुक्र-पिशम् । दधाने
दैव्या । होतारा । प्रथमा । सु-वाचा । मिमाना । यज्ञम् । मनुषः । यजध्यै । प्र-चोदयन्ता । विदथेषु । कारू इति । प्राचीनम् । ज्योतिः । प्र-दिशा । दिशन्ता
आ । नः । यज्ञम् । भारती । तूयम् । एतु । इळा । मनुष्वत् । इह । चेतयन्ती । तिस्रः । देवीः । बर्हिः । आ । इदम् । स्योनम् । सरस्वती । सु-अपसः । सदन्तु
यः । इमे इति । द्यावापृथिवी इति । जनित्री इति । रूपैः । अपिंशत् । भुवनानि । विश्वा । तम् । अद्य । होतः । इषितः । यजीयान् । देवम् । त्वष्टारम् । इह । यक्षि । विद्वान्
उप-अवसृज । त्मन्या । सम्-अञ्जन् । देवानाम् । पाथः । ऋतु-था । हवींषि । वनस्पतिः । शमिता । देवः । अग्निः । स्वदन्तु । हव्यम् । मधुना । घृतेन
सद्यः । जातः । वि । अमिमीत । यज्ञम् । अग्निः । देवानाम् । अभवत् । पुरः-गाः । अस्य । होतुः । प्र-दिशि । ऋतस्य । वाचि । स्वाहाकृतम् । हविः । अदन्तु । देवाः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0