भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.108

10.108.1

॥4॥.
-र्व्_8:6।5-
(र्व्_10,108)
किम् । इच्छन्ती । सरमा । प्र । इदम् । आनट् । दूरे । हि । अध्वा । जगुरिः । पराचैः । का । अस्मे--हितिः । का । परि-तक्म्या । आसीत् । कथम् । रसायाः । अतरः । पयांसि

10.108.2

इन्द्रस्य । दूतीः । इषिता । चरामि । महः । इच्छन्ती । पणयः । नि-धीन् । वः । अति-स्कदः । भियसा । तम् । नः । आवत् । तथा । रसायाः । अतरम् । पयांसि

10.108.3

कीदृक् । इन्द्रः । सरमे । का । दृशीका । यस्य । इदम् । दूतीः । असरः । पराकात् । आ । च । गच्छात् । मित्रम् । एन । दधाम । अथ । गवाम् । गो--पतिः । नः । भवाति

10.108.4

न । अहम् । तम् । वेद । दभ्यम् । दभत् । सः । यस्य । इदम् । दूतीः । असरम् । पराकात् । न । तम् । गूहन्ति । स्रवतः । गभीराः । हताः । इन्द्रेण । पणयः । शयध्वे

10.108.5

इमाः । गावः । सरमे । याः । ऐच्छः । परि । दिवः । अन्तान् । सु-भगे । पतन्ती । कः । ते । एनाः । अव । सृजात् । अयुध्वी । उत । अस्माकम् । आयुधा । सन्ति । तिग्मा

10.108.6

॥5॥.
-र्व्_8:6।6-
असेन्याः । वः । पणयः । वचांम्सि । अनिषव्याः । तन्वः । सन्तु । पापीः । अधृष्टः । वः । एतवै । अस्तु । पन्थाः । बृहस्पतिः । वः । उभया । न । मृळात्

10.108.7

अयम् । नि-धिः । सरमे । अद्रि-बुध्नः । गोभिः । अश्वेभिः । वसु-भिः । नि-ऋष्टः । रक्षन्ति । तम् । पणयः । ये । सु-गोपाः । रेकु । पदम् । अलकम् । आ । जगन्थ

10.108.8

आ । इह । गामन् । ऋषयः । सोम-शिताः । अयास्यः । अङ्गिरसः । नव-ग्वाः । ते । एतम् । ऊर्वम् । वि । भजन्त । गोनाम् । अथ । एतत् । वचः । पणयः । वमन् । इत्

10.108.9

एव । च । त्वम् । सरमे । आजगन्थ । प्र-बाधिता । सहसा । दैव्येन । स्वसारम् । त्वा । कृणवै । मा । पुनः । गाः । अप । ते । गवाम् । सु-भगे । भजाम

10.108.10

न । अहम् । वेद । भ्रातृ-त्वम् । नो इति । स्वसृ-त्वम् । इन्द्रः । विदुः । अङ्गिरसः । च । घोराः । गो--कामाः । मे । अच्छदयन् । यत् । आयम् । अप । अतः । इत । पणयः । वरीयः

10.108.11

दूरम् । इत । पणयः । वरीयः । उत् । गावः । यन्तु । मिनतीः । ऋतेन । बृहस्पतिः । याः । अविन्दत् । नि-गूळ्हाः । सोमः । ग्रावानः । ऋषयः । च । विप्राः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc