भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.107

10.107.1

॥2॥.
-र्व्_8:6।3-
(र्व्_10,107)
आविः । अभूत् । महि । माघोनम् । एषाम् । विश्वम् । जीवम् । तमसः । निः । अमोचि । महि । ज्योतिः । पितृ-भिः । दत्तम् । आ । अगात् । उरुः । पन्थाः । दक्षिणायाः । अदर्शि

10.107.2

उच्चा । दिवि । दक्षिणावन्तः । अस्थुः । ये । अश्व-दाः । सह । ते । सूर्येण । हिरण्य-दाः । अमृत-त्वम् । भजन्ते । वासः-दाः । सोम । प्र । तिरन्ते । आयुः

10.107.3

दैवी । पूर्तिः । दक्षिणा । देव-यज्या । न । कव-अरिभ्यः । नहि । ते । पृणन्ति । अथ । नरः । प्रयत-दक्षिणासः । अवद्य-भिया । बहवः । पृणन्ति

10.107.4

शत-धारम् । वायुम् । अर्कम् । स्वः-विदम् । नृ-चक्षसः । ते । अभि । चक्षते । हविः । ये । पृणन्ति । प्र । च । यच्छन्ति । सम्-गमे । ते । दक्षिणाम् । दुहते । सप्त-मातरम्

10.107.5

दक्षिणावान् । प्रथमः । हूतः । एति । दक्षिणावान् । ग्राम-नीः । अग्रम् । एति । तम् । एव । मन्ये । नृ-पतिम् । जनानाम् । यः । प्रथमः । दक्षिणाम् । आविवाय

10.107.6

॥3॥.
-र्व्_8:6।4-
तम् । एव । ऋषिम् । तम् । ओं इति । ब्रह्माणम् । आहुः । यज्ञ-न्यम् । साम-गाम् । उक्थ-शासम् । सः । शुक्रस्य । तन्वः । वेद । तिस्रः । यः । प्रथमः । दक्षिणया । रराध

10.107.7

दक्षिणा । अश्वम् । दक्षिणा । गाम् । ददाति । दक्षिणा । चन्द्रम् । उत । यत् । हिरण्यम् । दक्षि णा । अन्नम् । वनुते । यः । नः । आत्मा । दक्षिणाम् । वर्म । कृणुते । वि-जानन्

10.107.8

न । भोजाः । मम्रुः । न । नि-अर्थम् । ईयुः । न । रिष्यन्ति । न । व्यथन्ते । ह । भोजाः । इदम् । यत् । विश्वम् । भुवनम् । स्वः । च । एतत् । सर्वम् । दक्षिणा । एभ्यः । ददाति

10.107.9

भोजाः । जिग्युः । सुरभिम् । योनिम् । अग्रे । भोजाः । जिग्युः । वध्वम् । या । सु-वासाः । भोजाः । जिग्युः । अन्तः-पेयम् । सुरायाः । भोजाः । जिग्युः । ये । अहूताः । प्र-यन्ति

10.107.10

भोजाय । अश्वम् । सम् । मृजन्ति । आशुम् । भोजाय । आस्ते । कन्या । शुम्भमाना । भोजस्य । इदम् । पुष्करिणी-इव । वेश्म । परि-कृतम् । देवमानाइव । चित्रम्

10.107.11

भोजम् । अश्वाः । सुष्ठु-वाहः । वहन्ति । सु-वृत् । रथः । वर्तते । दक्षिणायाः । भोजम् । देवासः । अवत । भरेषु । भोजः । शत्रून् । सम्-अनीकेषु । जेता

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc