ऋग्वेदसंहिता, पदपाठ · अध्याय 10.106
॥27॥.
-र्व्_8:6।1-
(र्व्_10,106)
उभौ । ओं इति । नूनम् । तत् । इत् । अर्थयेथेइति । वि । तन्वाथेइति । धियः । वस्त्रा । अपसाइव । सध्रीचीना । यातवे । प्र । ईम् । अजीगः । सुदिनाइव । पृक्षः । आ । तंसयेथेइति
उष्टाराइव । फर्वरेषु । श्रयेथेइति । प्रायोगाइव । श्वात्र्या । शासुः । आ । इथः । दूताइव । हि । स्थः । यशसा । जनेषु । मा । अप । स्थातम् । महिषाइव । अव-पानात्
साकम्-युजा । शकुनस्य-इव । पक्षा । पश्वाइव । चित्रा । यजुः । आ । गमिष्टम् । अग्निः-इव । देव-योः । दीदि-वांसा । परिज्मानाइव । यजथः । पुरु-त्रा
आपी इति । वः । अस्मे इति । पितराइव । पुत्रा । उग्राइव । रुचा । नृपतीइवेतिनृपती-इव । तुर्यै । इर्याइव । पुष्ट्यै । किरणाइव । भुज्यै । श्रुष्टीवानाइव । हवम् । आ । गमिष्टम्
वंसगाइव । पूषर्या । शिम्बाता । मित्राइव । ऋता । शतरा । शातपन्ता । वाजाइव । उच्चा । वयसा । घर्म्ये--स्था । मेषाइव । इषा । सपर्या । पुरीषा
॥1॥.
-र्व्_8:6।2-
सृण्याइव । जर्भरी इति । तुर्फरीतूइति । नैतोशाइव । तुर्फरी इति । पर्फरीका । उदन्यजाइव । जेमना । मदेरू इति । ता । मे । जरायु । अजरम् । मरायु
पज्राइव । चर्चरम् । जारम् । मरायु । क्षद्म-इव । अर्थेषु । तर्तरीथः । उग्रा । ऋभू इति । न । आपत् । खरमज्रा । खर-ज्रुः । वायुः । न । पर्फरत् । क्षयत् । रयीणाम्
घर्माइव । मधु । जठरे । सनेरूइति । भगे--अविता । तुर्फरी इति । फारिवा । अरम् । पतराइव । चचरा । चन्द्र-निर्निक् । मनः-ऋङ्गा । मनन्या । न । जग्मी इति
बृहन्ताइव । गम्भरेषु । प्रति-स्थाम् । पादाइव । गाधम् । तरते । विदाथः । कर्णाइव । शासुः । अनु । हि । स्मराथः । अंशाइव । नः । भजतम् । चित्रम् । अप्नः
आरङ्गराइव । मधु । आ । ईरयेथेइति । सारघाइव । गवि । नीचीन-बारे । कीनाराइव । स्वेदम् । आसिस्विदाना । क्षाम-इव । ऊर्जा । सुयवस-अत् । सचेथेइतिस्
ऋध्याम । स्तोमम् । सनुयाम । वाजम् । आ । नः । मन्त्रम् । स-रथा । इह । उप । यातम् । यशः । न । पक्वम् । मधु । गोषु । अन्तः । आ । भूत-अंशः । अश्विनोः । कामम् । अप्राः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0