ऋग्वेदसंहिता, पदपाठ · अध्याय 10.105
॥25॥.
-र्व्_8:5।26-
(र्व्_10,105)
कदा । वसो इति । स्तोत्रम् । हर्यते । आ । अव । श्मशा । रुधत् । वारितिवाः । दीर्घम् । सुतम् । वाताप्याय
हरी इति । यस्य । सु-युजा । वि-व्रता । वेः । अर्वन्ता । अनु । शेपा । उभा । रजी इति । न । केशिना । पतिः । दन्
अप । योः । इन्द्रः । पापजे । आ । मर्तः । न । शश्रमाणः । बिभीवान् । शुभे । यत् । युयुजे । तविषी-वान्
सचा । आयोः । इन्द्रः । चर्कृषे । आ । उपानसः । सपर्यन् । नदयोः । वि-व्रतयोः । शूरः । इन्द्रः
अधि । यः । तस्थौ । केष-वन्ता । व्यचस्वन्ता । न । पुष्ट्यै । वनोति । शिप्राभ्याम् । शिप्रिणी-वान्
॥26॥.
-र्व्_8:5।27-
प्र । अस्तौत् । ऋष्व-ओजाः । ऋष्वेभिः । ततक्ष । शूरः । शवसा । ऋभुः । न । क्रतु-भिः । मातरिश्वा
वज्रम् । यः । चक्रे । सु-हनाय । दस्यवे । हिरीमशः । हरीमान् । अरुत-हनुः । अद्भुतम् । न । रजः
अव । नः । वृजिना । शिशीहि । ऋचा । वनेम । अनृचः । न । अब्रह्मा । यज्ञः । ऋधक् । जोषति । त्वे इति
ऊर्ध्वा । यत् । ते । त्रेतिनी । भूत् । यज्ञस्य । धूः-सु । सद्मन् । स-जूः । नावम् । स्व-यशसम् । सचा । आयोः
श्रिये । ते । पृश्निः । उप-सेचनी । भूत् । श्रिये । दर्विः । अरेपाः । यया । स्वे । पात्रे । सिञ्चसे । उत्
शतम् । वा । यत् । असुर्य । प्रति । त्वा । सु-मित्रः । इत्था । अस्तौत् । दुः-मित्रः । इत्था । अस्तौत् । आवः । यत् । दस्यु-हत्ये । कुत्स-पुत्रम् । प्र । आवः । यत् । दस्यु-हत्ये । कुत्स-वत्सम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0