भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.104

10.104.1

॥23॥.
-र्व्_8:5।24-
(र्व्_10,104)
असावि । सोमः । पुरु-हूत । तुभ्यम् । हरि-भ्याम् । यज्ञम् । उप । याहि । तूयम् । तुभ्यम् । गिरः । विप्र-वीराः । इयानाः । दधन्विरे । इन्द्र । पिब । सुतस्य

10.104.2

अप्-सु । धूतस्य । हरि-वः । पिब । इह । नृ-भिः । सुतस्य । जठरम् । पृणस्व । मिमिक्षुः । यम् । अद्रयः । इन्द्र । तुभ्यम् । तेभिः । वर्धस्व । मदम् । उक्थ-वाहः

10.104.3

प्र । उग्राम् । पीतिम् । वृष्णे । इयर्मि । सत्याम् । प्र-यै । सुतस्य । हरि-अश्व । तुभ्यम् । इन्द्र । धेनाभिः । इह । मादयस्व । धीभिः । विश्वाभिः । शच्या । गृणानः

10.104.4

ऊती । शची-वः । तव । वीर्येण । वयः । दधानाः । उशिजः । ऋत-ज्ञाः । प्रजावत् । इन्द्र । मनुषः । दुरोणे । तस्थुः । गृणन्तः । सध-माद्यासः

10.104.5

प्रनीति-भिः । ते । हरि-अश्व । सु-स्तोः । सुसुम्नस्य । पुरु-रुचः । जनासः । मंहिष्ठाम् । ऊतिम् । वि-तिरे । दधानाः । स्तोतारः । इन्द्र । तव । सूनृताभिः

10.104.6

॥24॥.
-र्व्_8:5।25-
उप । ब्रह्माणि । हरि-वः । हरि-भ्याम् । सोमस्य । याहि । पीतये । सुतस्य । इन्द्र । त्वा । यज्ञः । क्षममाणम् । आनट् । दाश्वान् । असि । अध्वरस्य । प्र-केतः

10.104.7

सहस्र-वाजम् । अभिमाति-सहम् । सुते--रणम् । मघ-वानम् । सु-वृक्तिम् । उप । भूषन्ति । गिरः । अप्रति-इतम् । इन्द्रम् । नमस्याः । जरितुः । पनन्त

10.104.8

सप्त । आपः । देवीः । सु-रणाः । अमृक्ताः । याभिः । सिन्धुम् । अतरः । इन्द्र । पूः-भित् । नवतिम् । स्रोत्याः । नव । च । स्रवन्तीः । देवेभ्यः । गातुम् । मनुषे । च । विन्दः

10.104.9

अपः । महीः । अभि-शस्तेः । अमुञ्चः । अजागः । आसु । अधि । देवः । एकः । इन्द्र । याः । त्वम् । वृत्र-तूर्ये । चकर्थ । ताभिः । विश्व-आयुः । तन्वम् । पुपुष्याः

10.104.10

वीरेण्यः । क्रतुः । इन्द्रः । सु-शस्तिः । उत । अपि । धेना । पुरु-हूतम् । ईटे । आदर्यत् । वृत्रम् । अकृणोत् । ओं इति । लोकम् । ससहे । शक्रः । पृतनाः । अभिष्टिः

10.104.11

शुनम् । हुवेम । मघ-वानम् । इन्द्रम् । अस्मिन् । भरे । नृ-तमम् । वाज-सातौ । शृण्वन्तम् । उग्रम् । ऊतये । समत्-सु । घ्नन्तम् । वृत्राणि । सम्-जितम् । धनानाम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc