भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.103

10.103.1

॥21॥.
-र्व्_8:5।22-
(र्व्_10,103)
आशुः । शिशानः । वृषभः । न । भीमः । घनाघनः । क्षोभणः । चर्षणीनाम् । सम्-क्रन्दनः । अनि-मिषः । एक-वीरः । शतम् । सेनाः । अजयत् । साकम् । इन्द्रः

10.103.2

सम्-क्रन्दनेन । अनि-मिषेण । जिष्णुना । युत्-कारेण । दुः-च्यवनेन । धृष्णुना । तत् । इन्द्रेण । जयत । तत् । सहध्वम् । युधः । नरः । इषु-हस्तेन । वृष्णा

10.103.3

सः । इषु-हस्तैः । सः । निषङ्गि-भिः । वशी । सम्-स्रष्टा । सः । युधः । इन्द्रः । गणेन । संसृष्ट-जित् । सोम-पाः । बाहु-शर्धी । उग्र-धन्वा । प्रति-हिताभिः । अस्ता

10.103.4

बृहस्पते । परि । दीय । रथेन । रक्षः-हा । अमित्रान् । अप-बाधमानः । प्र-भञ्जन् । सेनाः । प्र-मृणः । युधा । जयन् । अस्माकम् । एधि । अविता । रथानाम्

10.103.5

बल-विज्ञायः । स्थविरः । प्र-वीरः । सहस्वान् । वाजी । सहमानः । उग्रः । अभि-वीरः । अभि-सत्वा । सहः-जाः । जैत्रम् । इन्द्र । रथम् । आ । तिष्ठ । गो--वित्

10.103.6

गोत्र-भिदम् । गो--विदम् । वज्र-बाहुम् । जयन्तम् । अज्म । प्र-मृणन्तम् । ओजसा । इमम् । स-जाताः । अनु । वीरयध्वम् । इन्द्रम् । सखायः । अनु । सम् । रभध्वम्

10.103.7

॥22॥.
-र्व्_8:5।23-
अभि । गोत्राणि । सहसा । गाहमानः । अदयः । वीरः । शत-मन्युः । इन्द्रः । दुः-च्यवनः । पृतनाषाट् । अयुध्यः । अस्माकम् । सेनाः । अवतु । प्र । युत्-सु

10.103.8

इन्द्रः । आसाम् । नेता । बृहस्पतिः । दक्षिणा । यज्ञः । पुरः । एतु । सोमः । देव-सेनानाम् । अभि-भञ्जतीनाम् । जयन्तीनाम् । मरुतः । यन्तु । अग्रम्

10.103.9

इन्द्रस्य । वृष्णः । वरुणस्य । राज्ञः । आदित्यानाम् । मरुताम् । शर्धः । उग्रम् । महामनसाम् । भुवन-च्यवानाम् । घोषः । देवानाम् । जयताम् । उत् । अस्थात्

10.103.10

उत् । हर्षय । मघ-वन् । आयुधानि । उत् । सत्वनाम् । मामकानाम् । मनांसि । उत् । वृत्र-हन् । वाजिनाम् । वाजिनानि । उत् । रथानाम् । जयताम् । यन्तु । घोषाः

10.103.11

अस्माकम् । इन्द्रः । सम्-ऋतेषु । ध्वजेषु । अस्माकम् । याः । इषवः । ताः । जयन्तु । अस्माकम् । वीराः । उत्-तरे । भवन्तु । अस्मान् । ओं इति । देवाः । अवत । हवेषु

10.103.12

अमीषाम् । चित्तम् । प्रति-लोभयन्ती । गृहाण । अङ्गानि । अप्वे । परा । इहि । अभि । प्र । इहि । निः । दह । हृत्-सु । शोकैः । अन्धेन । अमित्राः । तमसा । सचन्ताम्

10.103.13

प्र । इत । जयत । नरः । इन्द्रः । वः । शर्म । यच्छतु । उग्राः । वः । सन्तु । बाहवः । अनाधृष्याः । यथा । असथ

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc