ऋग्वेदसंहिता, पदपाठ · अध्याय 10.102
॥19॥.
-र्व्_8:5।20-
(र्व्_10,102)
प्र । ते । रथम् । मिथु-कृतम् । इन्द्रः । अवतु । धृष्णु-या । अस्मिन् । आजौ । पुरु-हूत । श्रवाय्ये । धन-भक्षेषु । नः । अव
उत् । स्म । वातः । वहति । वासः । अस्याः । अधि-रथम् । यत् । अजयत् । सहस्रम् । रथीः । अभूत् । मुद्गलानी । गविष्टौ । भरे । कृतम् । वि । अचेत् । इन्द्र-सेना
अन्तः । यच्छ । जिघांसतः । वज्रम् । इन्द्र । अभि-दासतः । दासस्य । वा । मघ-वन् । आर्यस्य । वा । सनुतः । यवय । वधम्
उद्नः । ह्रदम् । अपिबत् । जर्हृषाणः । कूटम् । स्म । तृंहत् । अभि-मातिम् । एति । प्र । मुष्क-भारः । श्रवः । इच्छमानः । अजिरम् । बाहू इति । अभरत् । सिसासन्
नि । अक्रन्दयन् । उप-यन्तः । एनम् । अमेहयन् । वृषभम् । मध्ये । आजेः । तेन । सूभर्वम् । शत-वत् । सहस्रम् । गवाम् । मुद्गलः । प्र-धने । जिगाय
कर्क-देवे । वृषभः । आसीत् । अवावचीत् । सारथिः । अस्य । केशी । दुधेः । युक्तस्य । द्रवतः । सह । अनसा । ऋच्छन्ति । स्म । निः-पदः । मुद्गलानीम्
॥20॥.
-र्व्_8:5।21-
उत । प्र-धिम् । उत् । अहन् । अस्य । विद्वान् । उप । अयुनक् । वंसगम् । अत्र । शिक्षन् । इन्द्रः । उत् । आवत् । पतिम् । अघ्न्यानाम् । अरंहत । पद्याभिः । ककुत्-मान्
शुनम् । अष्ट्रावी । अचरत् । कपर्दी । वरत्रायाम् । दारु । आनह्यमानः । नृम्नानि । कृण्वन् । बहवे । जनाय । गाः । पस्पशानः । तविषीः । अधत्त
इमम् । तम् । पश्य । वृषभस्य । युञ्जम् । काष्ठायाः । मध्ये । द्रु-घणम् । शयानम् । येन । जिगाय । सत-वत् । सहस्रम् । गवाम् । मुद्गलः । पृतनाज्येषु
आरे । अघा । कः । नु । इत्था । ददर्श । यम् । युञ्जन्ति । तम् । ओं इति । आ । स्थापयन्ति । न । अस्मै । तृणम् । न । उदकम् । आ । भरन्ति । उत्-तरः । धुरः । वहति । प्र-देदिशत्
परिवृक्ताइव । पति-विद्यम् । आनट् । पीप्याना । कूचक्रेण-इव । सिञ्चन् । एष-एष्या । चित् । रथ्या । जयेम । सु-मङ्गलम् । सिन-वत् । अस्तु । सातम्
त्वम् । विश्वस्य । जगतः । चक्षुः । इन्द्र । असि । चक्षुषः । वृषा । यत् । आजिम् । वृषणा । सिसाससि । चोदयन् । वध्रिणा । युजा
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0