भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.101

10.101.1

॥17॥.
-र्व्_8:5।18-
(र्व्_10,101)
उत् । बुध्यध्वम् । स-मनसः । सखायः । सम् । अग्निम् । इन्ध्वम् । बहवः । स-नीळाः । दधि-कृआम् । अग्निम् । उषसम् । च । देवीम् । इन्द्र-वतः । अवसे । नि । ह्वये । वः

10.101.2

मन्द्रा । कृणुध्वम् । धियः । आ । तनुध्वम् । नावम् । अरित्र-परणीम् । कृणुध्वम् । इष्कृणुध्वम् । आयुधा । अरम् । कृणुध्वम् । प्राञ्चम् । यज्ञम् । प्र । नयत । सखायः

10.101.3

युनक्त । सीरा । वि । युगा । तनुध्वम् । कृते । योनौ । वपत । इह । बीजम् । गिरा । च । श्रुष्टिः । स-भराः । असत् । नः । नेदीयः । इत् । सृण्यः । पक्वम् । आ । इयात्

10.101.4

सीरा । युञ्जन्ति । कवयः । युगा । वि । तन्वते । पृथक् । धीराः । देवेषु । सुम्न-या

10.101.5

निः । आहावान् । कृणोतन । सम् । वरत्राः । दधातन । सिञ्चामहै । अवतम् । उद्रिणम् । वयम् । सु-सेकम् । अनुप-क्षितम्

10.101.6

इष्कृत-आहावम् । अवतम् । सु-वरत्रम् । सु-सेचनम् । उद्रिणम् । सिञ्चे । अक्षितम्

10.101.7

॥18॥.
-र्व्_8:5।19-
प्रीणीत । अश्वान् । हितम् । जयाथ । स्वस्ति-वाहम् । रथम् । इत् । कृणुध्वम् । द्रोण-आहावम् । अवतम् । अश्म-चक्रम् । अंसत्र-कोशम् । सिञ्चत । नृ-पानम्

10.101.8

व्रजम् । कृणुध्वम् । सः । हि । वः । नृ-पानः । वर्म । सीव्यध्वम् । बहुला । पृथूनि । पुरः । कृणुध्वम् । आयसीः । अधृष्टाः । मा । वः । सुस्रोत् । चमसः । दृंहत । तम्

10.101.9

आ । वः । धियम् । यज्ञियाम् । वर्ते । ऊतये । देवाः । देवीम् । यजताम् । यज्ञियाम् । इह । सा । नः । दुहीयत् । यवसाइव । गत्वी । सहस्र-धारा । पयसा । मही । गौः

10.101.10

आ । तु । सिञ्च । हरिम् । ईम् । द्रोः । उप-स्थे । वाशीभिः । तक्षत । अश्मन्-मयीभिः । परि । स्वजध्वम् । दश । कक्ष्याभिः । उभे इति । धुरौ । प्रति । वह्निम् । युनक्त

10.101.11

उभे इति । धुरौ । वह्निः । आपिब्दमानः । अन्तः । योनाइव । चरति । द्वि-जानिः । वनस्पतिम् । वने । आ । अस्थापयध्वम् । नि । सु । दधिध्वम् । अखनन्तः । उत्सम्

10.101.12

कपृत् । नरः । कपृथम् । उत् । दधातन । चोदयत । खुदत । वाज-सातये । निष्टिग्र्यः । पुत्रम् । आ । च्यावय । ऊतये । इन्द्रम् । स-बाधः । इह । सोम-पीतये

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc