भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.90

1.90.1

॥16॥.
-र्व्_1:6।17-
(र्व्_1,90)
ऋजु-नीती । नः । वरुणः । मित्रः । नयतु । विद्वान् । अर्यमा । देवैः । स-जोषाः

1.90.2

ते । हि । वस्वः । वसवानाः । ते । अप्र-मूराः । महः-भिः । व्रता । रक्षन्ते । विश्वाहा

1.90.3

ते । अस्मभ्यम् । शर्म । यंसन् । अमृताः । मर्त्येभ्यः । बाधमानाः । अप । द्विषः

1.90.4

वि । नः । पथः । सुविताय । चियन्तु । इन्द्रः । मरुतः । पूषा । भगः । वन्द्यासः

1.90.5

उत । नः । धियः । गो--अग्राः । पूषन् । विष्णो उति । एव-यावः । कर्त । नः । स्वस्ति-मतः

1.90.6

॥17॥.
-र्व्_1:6।18-
मधु । वाताः । ऋतयते । मधु । क्षरन्ति । सिन्धवः । माध्वीः । नः । सन्तु । ओषधीः

1.90.7

मधु । नक्तम् । उत । उषसः । मधु-मत् । पार्थिवम् । रजः । मधु । द्यौः । अस्तु । नः । पिता

1.90.8

मधु-मान् । नः । वनस्पतिः । मधु-मान् । अस्तु । सूर्यः । माध्वीः । गावः । भवन्तु । नः

1.90.9

शम् । नः । मित्रः । शम् । वरुणः । शम् । नः । भवतु । अर्यमा । शम् । नः । इन्द्रः । बृहस्पतिः । शम् । नः । विष्णुः । उरु-क्रमः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc