ऋग्वेदसंहिता, पदपाठ · अध्याय 1.91
॥18॥.
-र्व्_1:6।19-
(र्व्_1,91)
त्वम् । सोम । प्र । चिकितः । मनीषा । त्वम् । रजिष्ठम् । अनु । नेषि । पन्थाम् । तव । प्र-नीती । पितरः । नः । इन्दो इति । देवेषु । रत्नम् । अभजन्त । धीराः
त्वम् । सोम । क्रतु-भिः । सु-क्रतुः । भूः । त्वम् । दक्षैः । सु-दक्षः । विश्व-वेदाः । त्वम् । वृषा । वृष-त्वेभिः । महि-त्वा । द्युम्नेभिः । द्युम्नी । अभवः । नृ-चक्षाः
राज्ञः । नु । ते । वरुणस्य । व्रतानि । बृहत् । गभीरम् । तव । सोम । धाम । शुचिः । त्वम् । असि । प्रियः । न । मित्रः । दक्षाय्यः । अर्यमाइव । असि । सोम
या । ते । धामानि । दिवि । या । पृथिव्याम् । या । पर्वतेषु । ओषधीषु । अप्-सु । तेभिः । नः । विश्वैः । सु-मनाः । अहेळन् । राजन् । सोम । प्रति । हव्या । गृभाय
त्वम् । सोम । असि । सत्-पतिः । त्वम् । राजा । उत । वृत्र-हा । त्वम् । भद्रः । असि । क्रतुः
॥19॥.
-र्व्_1:6।20-
त्वम् । च । सोम । नः । वशः । जीवातुम् । न । मरामहे । प्रिय-स्तोत्रः । वनस्पतिः
त्वम् । सोम । महे । भगम् । त्वम् । यूने । ऋत-यते । दक्षम् । दधासि । जीवसे
त्वम् । नः । सोम । विश्वतः । रक्ष । राजन् । अघ-यतः । न । रिष्येत् । त्वावतः । सखा
सोम । याः । ते । मयः-भुवः । ऊतयः । सन्ति । दाशुषे । ताभिः । नः । अविता । भव
इमम् । यज्ञम् । इदम् । वचः । जुजुषाणः । उप-आगहि । सोम । त्वम् । नः । वृधे । भव
॥20॥.
-र्व्_1:6।21-
सोम । गीः-भिः । त्वा । वयम् । वर्धयामः । वचः-विदः । सु-मृळीकः । नः । आ । विश
गय-स्फानः । अमीव-हा । वसु-वित् । पुष्टि-वर्धनः । सु-मित्रः । सोम । नः । भव
सोम । ररन्धि । नः । हृदि । गावः । न । यवसेषु । आ । मर्यः-इव स्वे । ओक्ये
यः । सोम । सख्ये । तव । ररणत् । देव । मर्त्यः । तम् । दक्षः । सचते । कवि ः
उरुष्य । णः । अभि-शस्तेः । सोम । नि । पाहि । अंहसः । सखा । सु-शेवः । एधि । नः
॥21॥.
-र्व्_1:6।22-
आ । प्यायस्व । सम् । एतु । ते । विश्वतः । सोम । वृष्ण्यम् । भव । वाजस्य । सम्-गथे
आ । प्यायाअस्व । मदिन्-तम । सोम । विश्वेभिः । अंशु-भिः । भव । नः । सुश्रवः-तमः । सखा । वृधे
सम् । ते । पयांसि । सम् । ओं इति । यन्तु । वाजाः । सम् । वृष्ण्यानि । अभिमाति-सहः । आप्यायमानः । अमृताय । सोम । दिवि । श्रवांसि । उत्-तमानि । धिष्व
या । ते । धामानि । हविषा । यजन्ति । ता । ते । विश्वा । परि-भूः । अस्तु । यज्ञम् । गय-स्फानः । प्र-तरणः । सु-वीरः । अवीर-हा । प्र । चर । सोम । दुर्यान्
सोमः । धेनुम् । सोमः । अर्वन्तम् । आशुम् । सोमः । वीरम् । कर्मण्यम् । ददाति । सदन्यम् । विदथ्यम् । सभेयम् । पितृ-श्रवणम् । यः । ददाशत् । अस्मै
॥22॥.
-र्व्_1:6।23-
अषाह्वम् । युत्-सु । पृतनासु । पप्रिम् । स्वः-साम् । अप्साम् । वृजनस्य । गोपाम् । भरेषु-जाम् । सु-क्षितिम् । सु-श्रवसम् । जयन्तम् । त्वाम् । अनु । मदेम । सोम
त्वम् । इमाः । ओषधीः । सोम । विश्वाः । त्वम् । अपः । अजनयः । त्वम् । गाः । त्वम् । आ । ततन्थ । उरु । अन्तरिक्षम् । त्वम् । ज्योतिषा । वि । तमः । ववर्थ
देवेन । नः । मनसा । देव । सोम । रायः । भागम् । सहसावन् । अभि । युध्य । मा । त्वा । तनत् । ईशिषे । वीर्यस्य । उभयेभ्यः । प्र । चिकित्स । गो--इष्टौ
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0