भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.89

1.89.1

॥14॥.
-र्व्_1:6।15-
(र्व्_1,89)
आ । नः । भद्राः । क्रतवः । यन्तु । विश्वतः । अदब्धासः । अपरि-इतासः । उत्-भिदः । देवाः । नः । यथा । सदम् । इत् । वृधे । असन् । अप्र-आयुवः । रक्षितारः । दिवे--दिवे

1.89.2

देवानाम् । भद्रा । सु-मतिः । ऋजु-यताम् । देवानाम् । रातिः । अभि । नः । नि । वर्तताम् । देवानाम् । सख्यम् । उप । सेदिम । वयम् । देवाः । नः । आयुः । प्र । तिरन्तु । जीवसे

1.89.3

तान् । पूर्वया । नि-विदा । हूमहे । वयम् । भगम् । मित्रम् । अदितिम् । दक्षम् । अस्रिधम् । अर्यमणम् । वरुणम् । सोमम् । अश्विना । सरस्वती । नः । सु-भगा । मयः । करत्

1.89.4

तत् । नः । वातः । मयः-भु । वातु । भेषजम् । तत् । माता । पृथिवी । तत् । पिता । द्यौः । तत् । ग्रावाणः । सोम-सुतः । मयः-भुवः । तत् । अश्विना । शृणुतम् । धिष्ण्या । युवम्

1.89.5

तम् । ईशानम् । जगतः । तस्थुषः । पतिम् । धियम्-जिन्वम् । अवसे । हूमहे । वयम् । पूषा । नः । यथा । वेदसम् । असत् । वृधे । रक्षिता । पायुः । अदब्धः । स्वस्तये

1.89.6

॥15॥.
-र्व्_1:6।16-
स्वस्ति । नः । इन्द्रः । वृद्ध-श्रवाः । स्वस्ति । नः । पूषा । विश्व-वेदाः । स्वस्ति । नः । तार्क्ष्यः । अरिष्ट-नेमिः । स्वस्ति । नः । बृहस्पतिः । दधातु

1.89.7

पृषत्-अश्वाः । मरुतः । पृश्नि-मातरः । शुभम्-यावानः । विदथेषु । जग्मयः । अग्नि-जिह्वाः । मनवः । सूर-चक्षसः । विश्वे । नः । देवाः । अवसा । आ । गमन् । इह

1.89.8

भद्रम् । कर्णेभिः । शृणुयाम । देवाः । भद्रम् । पश्येम । अक्ष-भिः । यजत्राः । स्थ् इरैः । अङ्गैः । तुस्तु-वांसः । तनूभिः । वि । अशेम । देव-हितम् । यत् । आयुः

1.89.9

शतम् । इत् । नु । शरदः । अन्ति । देवाः । यत्र । नः । चक्र । जरसम् । तनूनाम् । पुत्रासः । यत्र । पितरः । भवन्ति । मा । नः । मध्या । रिरिषत । आयुः । गन्तोः

1.89.10

अदितिः । द्यौः । अदितिः । अन्तरिक्षम् । अदितिः । माता । सः । पिता । सः । पुत्रः । विश्वे । देवाः । अदितिः । पञ्च । जनाः । अदितिः । जातम् । अदितिः । जनि-त्वम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc