ऋग्वेदसंहिता, पदपाठ · अध्याय 1.88
॥13॥.
-र्व्_1:6।14-
(र्व्_1,88)
आ । विद्युन्मत्-भिः । मरुतः । सु-अर्कैः । रथेभिः । यात । ऋष्टिमत्-भिः । अश्व-पर्णैः । आ । वर्षिष्ठया । नः । इषा । वयः । न । पप्तत । सु-मायाः
ते । अरुणेभिः । वरम् । आ । पिशङ्गैः । शुभे । कम् । यान्ति । रथतूः-भिः । अश्वैः । रुक्मः । न । चित्रः । स्वधिति-वान् । पव्या । रथस्य । जङ्घनन्त । भूम
श्रिये । कम् । वः । अधि । तनूषु । वाशीः । मेधा । वना । न । कृणवन्ते । ऊर्ध्वा । युष्मभ्यम् । कम् । मरुतः । सु-जाताः । तुवि-द्युम्नासः । धनयन्ते । अद्रिम्
अहानि । गृध्राः । परि । आ । वः । आ । अगुः । इमाम् । धियम् । वार्कार्याम् । च । देवीम् । ब्रह्म । कृण्वन्तः । गोतमासः । अर्कैः । ऊर्ध्वम् । नुनुद्रे । उत्स-धिम् । पिबध्यै
एतत् । त्यत् । न । योजनम् । अचेति । सस्वः । ह । यत् । मरुतः । गोतमः । वः । पश्यन् । हिरण्य-चक्रान् । अयः-दंष्ट्रान् । वि-धावतः । वराहून्
एषा । स्या । वः । मरुतः । अनु-भर्त्री । प्रति । स्तोभति । वाघतः । न । वाणी । अस्तोभयत् । वृथा । आसाम् । अनु । स्वधाम् । गभस्त्योः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0