भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.87

1.87.1

॥12॥.
-र्व्_1:6।13-
(र्व्_1,87)
प्र-त्वक्षसः । प्र-तवसः । वि-रप्शिनः । अनानताः । अविथुराः । ऋजीष् इणः । जुष्ट-तमासः । नृ-तमासः । अञ्जि-भिः । वि । आनज्रे । के । चित् । उस्राइवस्तृभिः

1.87.2

उप-ह्वरेषु । यत् । अचिध्वम् । ययिम् । वयः-इव । मरुतः । केन । चित् । पथा । श्चोतन्ति । कोशाः । उप । वः । रथेषु । आ । घृतम् । उक्षत । मधु-वर्णम् । अर्चते

1.87.3

प्र । एषाम् । अज्मेषु । विथुराइव । रेजते । भूमिः । यामेषु । यत् । ह । युञ्जते । शुभे । ते । क्रीळयः । धुनयः । भ्राजत्-ऋष्टयः । स्वयम् । महि-त्वम् । पनयन्त । धूतयः

1.87.4

सः । हि । स्व-सृत् । पृषत्-अश्वः । युवा । गणः । अया । ईशानः । तविषी-भिः । आव् ऋतः । असि । सत्यः । ऋण-यावा । अनेद्यः । अस्याः । धियः । प्र-अविता । अथ । वृषा । गणः

1.87.5

पितुः । प्रत्नस्य । जन्मना । वदामसि । सोमस्य । जिह्वा । प्र । जिगाति । चक्षसा । यत् । ईम् । इन्द्रम् । शमि । ऋक्वाणः । आशत । आत् । इत् । नामानि । यज्ञियानि । दधिरे

1.87.6

श्रियसे । कम् । भानु-भिः । सम् । मिमिक्षिरे । ते । रश्मि-भिः । ते । ऋक्व-भिः । सु-खादयः । ते । वाशी-मन्तः । इष्मिणः । अभीरवः । विद्रे । प्रियस्य । मारुतस्य । धाम्नः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc