ऋग्वेदसंहिता, पदपाठ · अध्याय 1.86
॥10॥.
-र्व्_1:6।11-
(र्व्_1,86)
मरुतः । यस्य । हि । क्षये । पाथ । दिवः । वि-महसः । सः । सु-गोपातमः । जनः
यज्ञैः । वा । यज्ञ-वाहसः । विप्रस्य । वा । मतीनाम् । मरुतः । शृणुत । हवम्
उत । वा । यस्य । वाजिनः । अनु । विप्रम् । अतक्षत । सः । गन्ता । गो--मति । व्रजे
अस्य । वीरस्य । बर्हिषि । सुतः । सोमः । दिविष्टिषु । उक्थम् । मदः । च । शस्यते
अस्य । श्रोषन्तु । आ । भुवः । विश्वाः । यः । चर्षणीः । अभि । सूरम् । चित् । सस्रुषीः । इषः
॥11॥.
-र्व्_1:6।12-
पूर्वीभिः । हि । ददाशिम । शरत्-भिः । मरुतः । वयम् । अवः-भिः । चर्षणीनाम्
सु-भगः । सः । प्र-यज्यवः । मरुतः । अस्तु । मर्त्यः । यस्य । प्रयांसि । पर्षथ
शशमानस्य । वा । नरः । स्वेदस्य । सत्य-शवसः । विद । कामस्य । वेनतः
यूयम् । तत् । सत्य-शवसः । आविः । कर्त । महि-त्वना । विध्यत । वि-द्युता । रक्षः
गूहत । गुह्यम् । तमः । वि । यात । विश्वम् । अत्रिणम् । ज्योतिः । कर्त । यत् । उश्मस् इ
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0