ऋग्वेदसंहिता, पदपाठ · अध्याय 1.85
॥8॥.
-र्व्_1:6।9-
(र्व्_1,85)
प्र । ये । शुम्भन्ते । जनयः । न । सप्तयः । यामन् । रुद्रस्य । सूनवः । सु-दंससः । रोदसी । हि । मरुतः । चक्रिरे । वृधे । मदन्ति । वीराः । विदथेषु । घृष्वयः
ते । उक्षितासः । महिमानम् । आशत । दिवि । रुद्रासः । अधि । चक्रिरे । सदः । अर्चन्तः । अर्कम् । जनयन्तः । इन्द्रियम् । अधि । श्रियः । दधिरे । पृश्नि-मातरः
गो--मातरः । यत् । शुभयन्ते । अञ्जि-भिः । तनूषु । शुभ्राः । दधिरे । विरुक्मतः । बाधन्ते । विश्वम् । अभि-मातिनम् । अप । वर्त्मानि । एषाम् । अनु । रीयते । घृतम्
वि । ये । भ्राजन्ते । सु-मखासः । ऋष्टि-भिः । प्र-च्यवयन्तः । अच्युता । चित् । ओजसा । मनः-जुवः । यत् । मरुतः । रथेषु । आ । वृष-व्रातासः । पृषतीः । अयुग्ध्वम्
प्र । यत् । रथेषु । पृषतीः । अयुग्ध्वम् । वाजे । अद्रिम् । मरुतः । रंहयन्तः । उत । अरुषस्य । वि । स्यन्ति । धाराः । चर्म-इव । उद-भिः । वि । उन्दन्ति । भूम
आ । वः । वहन्तु । सप्तयः । रघु-स्यदः । रघु-पत्वानः । प्र । जिगात । बाहु-भिः । सीदता । बर्हिः । उरु । वः । सदः । कृतम् । मादयध्वम् । मरुतः । मध्वः । अन्धसः
॥9॥.
-र्व्_1:6।10-
ते । अवर्धन्त । स्व-तवसः । महि-त्वना । आ । नाकम् । तस्थुः । उरु । चक्रिरे । सदः । विष्णुः । यत् । ह । आवत् । वृषणम् । मद-च्युतम् । वयः । न । स्दन् । अधि । बर्हिषि । प्रिये
शूराः-इव । इत् । युयुधयह् । न । जग्मयः । श्रवस्यवः । न । पृतनासु । येतिरे । भयन्ते । विश्वा । भुवना । मरुत्-भ्यः । राजानः-इव । त्वेष-सन्दृशः । नरः
त्वष्टा । यत् । वज्रम् । सु-कृतम् । हिरण्ययम् । सहस्र-भृष्टिम् । सु-अपाः । अवर्तयत् । धत्ते । इन्द्रः । नरि । अपांसि । कर्तवे । अहन् । वृत्रम् । निः । अपाम् । औब्जत् । अर्णवम्
ऊर्ध्वम् । नुनुद्रे । अवतम् । ते । ओजसा । दादृहाणम् । चित् । बिभिदुः । वि । पर्वतम् । धमन्तः । वाणम् । मरुतः । सु-दानवह् । मदे । सोमस्य । रण्यानि । चक्रिरे
जिह्मम् । नुनुद्रे । अवतम् । तया । दिशा । असिञ्चन् । उत्सम् । गोतमाय । तृष्ण-जे । आ । गच्छन्ति । ईम् । अवसा । चित्र-भानवः । कामम् । विप्रस्य । तर्पयन्त । धाम-भिः
या । वः । शर्म । शशमानाय । सन्ति । त्रि-धातूनि । दाशुषे । यच्छत । अधि । अस्मभ्यम् । तानि । मरुतः । वि । यन्त । रयिम् । नः । धत्त । वृषणः । सु-वीरम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0