ऋग्वेदसंहिता, पदपाठ · अध्याय 1.84
॥4॥.
-र्व्_1:6।5-
(र्व्_1,84)
असावि । सोमः । इन्द्र । ते । शविष्ठ । धृष्णो इति । आ । गहि । आ । त्वा । पृणक्तु । इन्द्रियम् । रजः । सूर्यः । न । रश्मि-भिः
इन्द्रम् । इत् । हरी । वहतः । अप्रतिधृष्ट-शवसम् । ऋषीणाम् । च । स्तुतीः । उप । यज्ञम् । च । मानुषाणाम्
आ । तिष्ठ । वृत्र-हन् । रथम् । युक्ता । ते । ब्रह्मणा । हरी
इति । अर्वाचीनम् । सु । ते । मनः । ग्रावा । कृणोतु । वग्नुना
इमम् । इन्द्र । सुतम् । पिब । ज्येष्ठम् । अमर्त्यम् । मदम् । शुक्रस्य । त्वा । अभि । अक्षरन् । धाराः । ऋतस्य । सादने
इन्द्राय । नूनम् । अर्चत । उक्थानि । च । ब्रवीतन । सुताः । अमत्सुः । इन्दवः । ज्येष्ठम् । नमस्यत । सहः
॥5॥.
-र्व्_1:6।6-
नकिः । त्वत् । रथीतरः । हरी । यत् । इन्द्र । यच्छसे । नकिः । त्वा । अनु । मज्मना । नकिः । सु-अश्वः । आनशे
यः । एकः । इत् । वि-दयते । वसु । मर्ताय । दाशुषे । ईशानः । अप्रति-स्कुतः । इन्द्रः । अङ्ग
कदा । मर्तम् । अराधसम् । पदा । क्षुम्पम्-इव । स्फुरत् । कदा । नः । शुश्रवत् । गिरः । इन्द्रः । अङ्ग
यः । चित् । हि । त्वा । बहु-भ्यः । आ । सुत-वान् । आविवासति । उग्रम् । तत् । पत्यते । शवः । इन्द्रः । अङ्ग
स्वादोः । इत्था । विषु-वतः । मध्वः । पिबन्ति । गौर्यः । याः । इन्द्रेण । स-यावरीः । वृष्णा । मदन्ति । शोभसे । वस्वीः । अनु । स्व-राज्यम्
॥6॥.
-र्व्_1:6।7-
ताः । अस्य । पृशन-युवः । सोमम् । श्रीणन्ति । पृश्नयः । प्रियाः । इन्द्रस्य । धेनवः । वज्रम् । हिन्वन्ति । सायकम् । वस्वीः । अनु । स्व-राज्यम्
ताः । अस्य । नमसा । सहः । सपर्यन्ति । प्र-चेतसः । व्रतानि । अस्य । सश्चिरे । पुरूणि । पूर्व-चित्तये । वस्वीः । अनु । स्व-राज्यम्
इन्द्रः । दधीचः । अस्थ-भिः । वृत्राणि । अप्रति-स्कुतः । जघान । नवतीः । नव
इच्छन् । अश्वस्य । यत् । शिरः । पर्वतेषु । अप-श्रितम् । तत् । विदत् । शर्यणावति
अत्र । अह । गोः । अमन्वत । नाम । त्वष्टुः । अपीच्यम् । इत्था । चन्द्रमसः । गृहे
॥7॥.
-र्व्_1:6।8-
कः । अद्य । युङ्क्ते । धुरि । गाः । ऋतस्य । शिमी-वतः । भामिनः । दुः-हृणायून् । आसन्-इषून् । हत्सु-असः । मय-भून् । यः । एषाम् । भृत्याम् । ऋणधत् । सः । जीवात्
कः । ईषते । तुज्यते । कः । बिभाय । कः । मंसते । सन्तम् । इन्द्रम् । कः । अन्ति । कः । तोकाय । कः । इभाय । उत । राये । अधि । ब्रवत् । तन्वे । कः । जनाय
कः । अग्निम् । ईटे । हविषा । घृतेन । स्रुचा । यजातै । ऋतु-भिः । ध्रुवेभिः । कस्मै । देवाः । आ । वहान् । आशु । होम । कः । मंसते । वीति-होत्रः । सु-देवः
त्वम् । अङ्ग । प्र । शंसिषः । देवः । शविष्ठ । मर्त्यम् । न । त्वत् । अन्यः । मघ-वन् । अस्ति । मर्डिता । इन्द्र । ब्रवीमि । ते । वचः
मा । ते । राधांसि । मा । ते । ऊतयः । वसो इति । अस्मान् । कदा । चन । दभन् । विश्वा । च । नः । उप-मिमीहि । मानुष । वसून् इ । चर्षणि-भ्यः । आ
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0