भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.83

1.83.1

॥3॥.
-र्व्_1:6।4-
(र्व्_1,83)
अश्व-वति । प्रथमः । गोषु । गच्छति । सुप्र-आवीः । इन्द्र । मर्त्यः । तव । ऊति-भिः । तम् । इत् । पृणक्षि । वसुना । भवीयसा । सिन्धुम् । आपः । यथा । अभितः । वि-चेतसः

1.83.2

आपः । न । देवीः । उप । यन्ति । होत्रियम् । अवः । पश्यन्ति । वि-ततम् । यथा । रजः । प्राचैः । देवासः । प्र । नयन्ति । देव-युम् । ब्रह्म-प्रियम् । जोषयन्ते । वराः-इव

1.83.3

अधि । द्वयोः । अदधाः । उक्थ्यम् । वचः । यत-स्रुचा । मिथुना । या । सपर्यतः । असम्-यत्तः । व्रते । ते । क्षेति । पुष्यति । भद्रा । शक्तिः । यजमानाय । सुन्वते

1.83.4

आत् । अङ्गिराः । प्रथमम् । दधिरे । वयः । इद्ध-अग्नयः । शम्या । ये । सु-कृत्यया । सर्वम् । पणेः । सम् । अविन्दन्त । भोजनम् । अश्व-वन्तम् । गो--मन्तम् । आ । पशुम् । नरः

1.83.5

यज्ञैः । अथर्वा । प्रथमः । पथः । तते । ततः । सूर्यः । व्रत-पाः । वेनः । आ । अजनि । आ । गाः । आजत् । उशना । कव्यः । सचा । यमस्य । जातम् । अमृतम् । यजामहे

1.83.6

बर्हिः । वा । यत् । सु-अपत्याय । वृज्यते । अर्कः । वा । श्लोकम् । आघोषते । दिवि । ग्रावा । यत्र । वदति । कारुः । उक्थ्यः । तस्य । इत् । इन्द्रः । अभि-पित्वेषु । रण्यति

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc