भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.80

1.80.1

॥28॥.
-र्व्_1:5।29-
(र्व्_1,80)
इत्था । हि । सोमे । इत् । मदे । ब्रह्मा । चकार । वर्धनम् । शविष्ठ । वज्रिन् ओजसा । पृथिव्याः । निः । शशाः । अहिम् । अर्चन् । अनु । स्व-राज्यम्

1.80.2

सः । त्वा । अमदत् । वृषा । मदः । सोमः । श्येन-आभृतः । सुतः । येन । वृत्रम् । निः । अत्-भ्यः । जघन्थ । वज्रिन् । ओजसा । अर्चन् । अनु । स्व-राज्यम्

1.80.3

प्र । इहि । अभि । इहि । धृष्णुहि । न । ते । वज्रः । नि । यंसते । इन्द्र । नृम्णम् । ह् इ । ते । शवः । हनः । वृत्रम् । जयाः । अपः । अर्चन् । अनु । स्व-राज्यम्

1.80.4

निः । इन्द्र । भूम्याः । अधि । वृत्रम् । जघन्थ । निः । दिवः । सृज । मरुत्वतीः । अव । जीव-धन्याः । इमाः । अपः । अर्चन् । अनु । स्व-राज्यम्

1.80.5

इन्द्रः । वृत्रस्य । दोधतः । सानुम् । वज्रेण । हीळितः । अभि-क्रम्य । अव । जि घ्नते । अपः । सर्माय । चोदयन् । अर्चन् । अनु । स्व-राज्यम्

1.80.6

॥29॥.
-र्व्_1:5।30-
अधि । सानौ । नि । जिघ्नीअते । वज्रेण । शत-पर्वणा । मन्दानः । इन्द्रः । अन्धसः । सखि-भ्यः । गातुम् । इच्छति । अर्चन् । अनु । स्व-राज्यम्

1.80.7

इन्द्र । तुभ्यम् । इत् । अद्रि-वः । अनुत्तम् । वज्रिन् । वीर्यम् । यत् । ह । त्यम् । माय् इनम् । मृगम् । तम् । ओं इति । त्वम् । मायया । अवधीः । अर्चन् । अनु । स्व-राज्यम्

1.80.8

वि । ते । वज्रासः । अस्थिरन् । नवतिम् । नाव्याः । अनु । महत् । ते । इन्द्र । वीर्यम् । बाह्वोः । ते । बलम् । हितम् । अर्चन् । अनु । स्व-राज्यम्

1.80.9

सहस्रम् । साकम् । अर्चत । परि । स्तोभत । विंशतिः । शता । एनम् । अनु । अनोनवुः । इन्द्राय । ब्रह्म । उत्-यतम् । अर्चन् । अनु । स्व-राज्यम्

1.80.10

इन्द्रः । वृत्रस्य । तविषीम् । निः । अहन् । सहसा । सहः । महत् । तत् । अस्य । पैंस्यम् । वृत्रम् । जघन्वान् । असृजत् । अर्चन् । अनु । स्व-राज्यम्

1.80.11

॥30॥.
-र्व्_1:5।31-
इमे । चित् । तव । मन्यवे । वेपेतेइति । भियसा । मही । यत् । इन्द्र । वज्रिन् । ओजसा । वृत्रम् । मरुत्वान् । अवधीः । अर्चन् । अनु । स्व-राज्यम्

1.80.12

न । वेपसा । न । तन्यता । इन्द्रम् । वृत्रः । वि । बीभयत् । अभि । एनम् । वज्रः । आयसः । सहस्र-भृष्टिः । आयात । अर्चन् । अनु । स्व-राज्यम्

1.80.13

यत् । वृत्रम् । तव । च । अशनिम् । वज्रेण । सम्-अयोधयः । अहिम् । इन्द्र । जिघांसतः । दिवि । ते । बद्बधे । शवः । अर्चन् । अनु । स्व-राज्यम्

1.80.14

अभि-स्तने । ते । अद्रि-वः । यत् । स्थाः । जगत् । च । रेजते । त्वष्टा । चित् । तव । मन्यवे । इन्द्र । वेविज्यते । भिया । अर्चन् । अनु । स्व-राज्यम्

1.80.15

नहि । नु । यात् । अधि-इमसि । इन्द्रम् । कः । वीर्या । परः । तस्मिन् । नृम्णम् । उत । क्रतुम् । देवाः । ओजांसि । सम् । दधुः । अर्चन् । अनु । स्व-राज्यम्

1.80.16

याम् । अथर्वा । मनुः । पिता । दध्यङ् । धियम् । अत्नत । तस्मिन् । ब्रह्माणि । पूर्व-था । इन्द्रे । उक्था । सम् । अग्मत । अर्चन् । अनु । स्व-राज्यम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc