भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.79

1.79.1

॥26॥.
-र्व्_1:5।27-
(र्व्_1,79)
हिरण्य-केशः । रजसः । वि-सारे । अहिः । धुनिः । वातः-इव । ध्रजीमान् । शुचि-भ्राजाः । उषसः । नवेदाः । यशस्वतीः । अपस्युवः । न । सत्याः

1.79.2

आ । ते । सु-पर्णाः । अमिनन्त । एवैः । कृष्णः । नोनाव । वृषभः । यदि । इदम् । शिवाभिः । न । स्मयमानाभिः । आ । अगात् । पतन्ति । मिहः । स्तनयन्ति । अभृआ

1.79.3

यत् ईम् । ऋतस्य । पयसा । पियानः । नयन् । ऋतस्य । पथि-भिः । रजिष्ठैः । अयर्मा । मित्रः । वरुणः । परि-ज्मा । त्वचम् । पृञ्चन्ति । उपरस्य । योनौ

1.79.4

अग्ने । वाजस्य । गोमतः । ईशानः । सहसः । यहो इति । अस्मे इति । धेहि । जात-वेदः । महि । श्रवः

1.79.5

सः । इधानः । वसुः । कविः । अग्निः । ईळेन्यः । गिरा । रेवत् । अस्मभ्यम् । पुरु-अणीक । दीदिहि

1.79.6

क्षपः । राजन् । उत । त्मना । अग्ने । वस्तोः । उत । उषसः । सः । तिग्म-जम्भ । रक्षसः । दह । प्रति

1.79.7

॥27॥.
-र्व्_1:5।28-
अव । नः । अग्ने । ऊति-भिः । गायत्रस्य । प्र-भर्मणि । विश्वासु । धीषु । वन्द्य

1.79.8

आ । नः । अग्ने । रयिम् । भर । सत्रासहम् । वरेण्यम् । विश्वासु । पृत्-सु । दुस्तरम्

1.79.9

आ । नः । अग्ने । सु-चेतुना । रयिम् । विश्वायु-पोषसम् । मार्डीकम् । धेहि । जीवसे

1.79.10

प्र । पूताः । तिग्म-शोचिषे । वाचः । गोतम । अग्नये । भरस्व । सुम्न-युः । गिरः

1.79.11

यः । नः । अग्ने । अभि-दासति । अन्ति । दूरे । पदीष्ट । सः । अस्माकम् । इत् । वृधे । भव

1.79.12

सहस्र-अक्षः । वि-चर्षणिः । अग्निः । रक्षांसि । सेधति । होता । गृणीते । उक्थ्यः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc