ऋग्वेदसंहिता, पदपाठ · अध्याय 1.81
॥31॥.
-र्व्_1:6।1-
(र्व्_1,81)
इन्द्रः । मदाय । ववृधे । शवसे । वृत्र-हा । नृ-भिः । तम् । इत् । महत्-सु । आजिषु । उत । ईम् । अर्भे । हवामहे । सः । वाजेषु । प्र । नः । अविषत्
असि । हि । वीर । सेन्यः । असि । भूरि । पराददिः । असि । दभ्रस्य । चित् । वृधः । यजमानाय । शिक्षसि । सुन्वते । भूरि । ते । वसु
यत् । उत्-ईरते । आजयः । धृष्णवे । धीयते । धना । युक्ष्व । मद-च्युता । हरी इति । कम् । हनः । कम् । वसौ । दधः । अस्मान् । इन्द्र । वसौ । दधः
क्रत्वा । महान् । अनु-स्वधम् । भीमः । आ । ववृधे । शवः । श्रिये । ऋष्वः । उपाकयोः । नि । शिप्री । हरि-वान् । दधे । हस्तयोः । वज्रम् । आयसम्
आ । पप्रौ । पार्थिवम् । रजः । बद्बधे । रोचना । दिवि । न । त्वावान् । इन्द्र । कः । चन । न । जातः । न । जनिष्यते । अति । विश्वम् । ववक्षिथ
॥1॥.
-र्व्_1:6।2-
यः । अर्यः । मर्त-भोजनम् । पराददाति । दाशुषे । इन्द्रः । अस्मभ्यम् । शिक्षतु । वि । भज । भूरि । ते । वसु । भक्षीय । तव । राधसः
मदे--मदे । हि । नः । ददिः । यूथा । गवाम् । ऋजु-क्रतुः । सम् । गृभाय । पुरु । शता । उभयाहस्त्या । वसु । शिशीहि । रायः । आ । भर
मादयस्व । सुते । सचा । शवसे । शूर । राधसे । विद्म । हि । त्वा । पुरु-वसुम् । उप । कामान् । ससृज्महे । अथ । नः । अविता । भव
एते । ते । इन्द्र । जन्तवः । विश्वम् । पुष्यन्ति । वार्यम् । अन्तः । हि । ख्यः । जनानाम् । अर्यः । वेदः । अदाशुषाम् । तेषाम् । नः । वेदः । आ । भर
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0