ऋग्वेदसंहिता, पदपाठ · अध्याय 1.73
॥18॥.
-र्व्_1:5।19-
(र्व्_1,73)
रयिः । न । यः । पितृ-वित्तः । वयः-धाः । सु-प्रनीतिः । चिकितुषः । न । शासुः । स्योन-शीः । अतिथिः । न । प्रीणानः । होताइव । सद्म । विधतः । वि । तारीत्
देवः । न । यः । सविता । सत्य-मन्मा । क्रत्वा । नि-पाति । वृजनानि । विश्वा । पुरु-प्रशस्तः । अमतिः । न । सत्यः । आत्माइव । शेवः । दिधिषाय्यः । भूत्
देवः । न । यः । पृथिवीम् । विश्व-धायाः । उप-क्षेति । हित-मित्रः । न । राजा । पुरः-सदः । शर्म-सदः । न । वीराः । अनवद्या । पतिजुष्टाइव । नारी
तम् । त्वा । नरः । दमे । आ । नित्यम् । इद्धम् । अग्ने । सचन्त । क्षितिषु । ध्रुवासु । अधि । द्युम्नम् । नि । दधुः । भूरि । अस्मिन् । भव । विश्व-आयुः । धरुणः । रयीणाम्
वि । पृक्षः । अग्ने । मघ-वानः । अश्युः । वि । सूरयः । ददतः । विश्वम् । आयुः । सनेम । वाजम् । सम्-इथेषु । अर्यः । भागम् । देवेषु । श्रवसे । दधानाः
॥19॥.
-र्व्_1:5।20-
ऋतस्य । हि । धेनवः । वावशानाः । स्मत्-ऊध्नीः । पीपयन्त । द्यु-भक्ताः । परावतः । सु-मतिम् । भिक्षमाणाः । वि । सिन्धवः । समया । सस्रुः । अद्रिम्
त्वे । अग्ने । सु-मतिम् । भिक्षमाणाः । दिवि । श्रवः । दधिरे । यज्ञियाः । नक्ता । च । चक्रुः । उषसा । विरूपेइतिवि-रूपे । कृष्णम् । च । वर्णम् । अरुणम् । च । सम् । धुरित् इधुः
यान् । राये । मर्तान् । सुसूदः । अग्ने । ते । स्याम । मघ-वानः । वयम् । च । छायाइव । विश्वम् । भुवनम् । सिसक्षि । आपप्रि-वान् । रोदसी इति । अन्तरिक्षम्
अर्वत्-भिः । अग्ने । अर्वतः । नृभिः । नॄन् वीरैर् वीरान् वनुयामा त्वोताः । ईशानासः । पितृ-वित्तस्यर् । यः । वि । सूरयः । शत-हिमाः । नः । अश्युः
एता । ते । अग्ने । उचथानि । वेधः । जुष्टानि । सन्तु । मनसे । हृदे । च । शकेम । रायः । सु-धुरः । यमम् । ते । अधि । श्रवः । देव-भक्तम् । दधानाः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0