भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.72

1.72.1

॥16॥.
-र्व्_1:5।17-
(र्व्_1,72)
नि । काव्या । वेधसः । शश्वतः । कः । हस्ते । दधानः । नर्या । पुरूणि । अग्निः । भुवत् । रयि-पतिः । रयीणाम् । सत्रा । चक्राणः । अमृतानि । विश्वा

1.72.2

अस्मे इति । वत्सम् । परि । सन्तम् । न । विन्दन् । इच्छन्तः । विश्वे । अमृताः । अमूराः । श्रम-युवः । पदव्यः । धियम्-धाः । तस्थुः । पदे । परमे । चारु । अग्नेः

1.72.3

तिस्रः । यत् । अग्ने । शरदः । त्वाम् । इत् । शुचिम् । घृतेन । शुचयः । सपर्यान् । नामानि । चित् । दधिरे । यज्ञियानि । असूदयन्त । तन्वः । सु-जाताः

1.72.4

आ । रोदसी इति । बृहती इति । वेविदानाः । प्र । रुद्रिया । जभ्रिरे । यज्ञियासः । विदत् । मर्तः । नेम-धिता । चिकित्वान् । अग्निम् । पदे । परमे । तस्थि-वांसम्

1.72.5

सम्-जानानाः । उप । सीदन् । अभि-ज्ञु । पत्नी-वन्तः । नमस्यम् । नमस्यन्नितिनमस्यन् । रिरिक्वांसः । तन्वः । कृण्वत । स्वाः । सखा । सख्युः । न् इ-मिषि । रक्षमाणाः

1.72.6

॥17॥.
-र्व्_1:5।18-
त्रिः । सप्त । यत् । गुह्यानि । त्वेइति । इत् । पदा । अविदन् । नि-हिताः । यज्ञियासः । तेभिः । रक्षन्ते । अमृतम् । स-जोषाः । पशून् । च । स्थातॄन् । चरथम् । च । पाहि

1.72.7

विद्वान् । अग्ने । वयुनानि । क्षितीनाम् । वि । आनुषक् । शुरुधः । जीवसे । धाः । अन्तः-विद्वान् । अध्वनः । देव-यानान् । अतन्द्रः । दूतः । अभवः । हविः-वाट्

1.72.8

स्वु-आध्यः । दिवः । आ । सप्त । यह्वीः । रायः । दुरः । वि । ऋत-ज्ञाः । अजानन् । विदत् । गव्यम् । सरमा । दृळ्हम् । ऊर्वम् । येन । नु । कम् । मानुषी । भोजते । विट्

1.72.9

आ । ये । विश्वा । सु-अपत्यानि । तस्थुः । कृण्वानासः । अमृत-त्वाय । गातुम् । मह्ना । महत्-भिः । पृथिवी । वि । तस्थे । माता । पुत्रैः । अदितिः । धायसे । वेः

1.72.10

अधि । श्रियम् । नि । दधुः । चारुम् । अस्मिन् । दिवः । यत् । अक्षी इति । अमृताः । अकृण्वन् । अध । क्षरन्ति । सिन्धवः । न । सृष्टाः । प्र । नीचीः । अग्ने । अरुषीः । अजानन्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc