ऋग्वेदसंहिता, पदपाठ · अध्याय 1.74
॥20॥.
-र्व्_1:5।21-
(र्व्_1,74)
उप-प्रयन्तः । अध्वरम् । मन्त्रम् । वोचेम । अग्नये । आरे । अस्मे इति । च । शृण्वते
यः । स्नीहितीषु । पूर्व्यः । सम्-जग्मानासु । कृष्टिषु । अरक्षत् । दाशुषे । गयम्
उत । ब्रुवन्तु । जन्तवः । उत् । अग्निः । वृत्र-हा । अजनि । धनम्-जयः । रणे--रणे
यस्य । दूतः । असि । क्षये । वेषि । हव्यानि । वीतये । दस्मत् । कृणोषि । अध्वरम्
तम् । इत् । सु-हव्यम् । अङ्गिरः । सु-देवम् । सहसः । यहो इति । जनाः । आहुः । सु-बर्हिषम्
॥21॥.
-र्व्_1:5।22-
आ । च । वहासि । तान् । इह । देवान् । उप । प्र-शस्तये । हव्या । सु-चन्द्र । वीतये
न । योः । उपब्दिः । अश्व्यः । शृण्वे । रथस्य । कत् । चन । यत् । अग्ने । यासि । दूत्यम्
त्वाऊतः । वाजी । अह्रयः । अभि । पूर्वस्मात् । अपरः । प्र । दाश्वान् । अग्ने । अस्थात्
उत । द्यु-मत् । सु-वीर्यम् । बृहत् । अग्ने । विवाससि । देवेभ्यः । देव । दाशुषे
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0