ऋग्वेदसंहिता, पदपाठ · अध्याय 1.71
॥14॥.
-र्व्_1:5।15-
(र्व्_1,71)
उप । प्र । जिन्वन् । उशतीः । उशन्तम् । पतिम् । न । नित्यम् । जनयः । स-नीळाः । स्वसारः । श्यावीम् । अरुषीम् । अजुष्रन् । चित्रम् । उच्छन्तीम् । उषसम् । न । गावः
वीळु । चित् । दृळ्हा । पितरः । नः । उक्थैः । अद्रिम् । रुजन् । अङ्गिरसः । रवेण । चक्रुः । दिवः । बृहतः । गातुम् । अस्मे इति । अहरिति । स्वः । विविदुः । केतुम् । उस्राः
दधन् । ऋतम् । धनयन् । अस्य । धीतिम् । आत् । इत् । अर्यः । दधिष्वः । वि-भृत्राः । अतृष्यन्तीः । अपसः । यन्ति । अच्छ । देवान् । जन्म । प्रयसा । वर्धयन्तीः
मथीत् । यत् । ईम् । वि-भृतः । मातरिश्वा । गृहे--गृहे । श्येतः । जेन्यः । भूत् । आदीम् । राज्ञे । न । सहीयसे । सचा । सन् । आ । दूत्यम् । भृगवाणः । विवाय
महे । यत् । पित्रे । ईम् । रसम् । दिवे । कः । अव । त्सरत् । पृशन्यः । चिकित्वान् । सृजत् । अस्ता । धृषता । दिद्युम् । अस्मै । स्वायाम् । देवः । दुहितरि । त्विषिम् । धात्
॥15॥.
-र्व्_1:5।16-
स्वे । आ । यः । तुभ्यम् । दमे । आ । वि-भाति । नमः । वा । दाशात् । उशतः । अनु । द्यून् । वर्धः । अग्ने । वयः । अस्य । द्वि-बर्हाः । यासत् । राया । स-रथम् । यम् । जुनासि
अग्निम् । विश्वाः । अभि । पृक्षः । सचन्ते । समुद्रम् । न । स्रवतः । सप्त । यह्वीः । न । जामिभिः । वि । चिकिते । वयः । नः । विदाः । देवेषु । प्र-मतिम् । चिकित्वान्
आ । यत् । इषे । नृ-पतिम् । तेजः । आनट् । शुचि । रेतः । नि-सिक्तम् । द्यौः । अभीके । अग्निः । शर्धम् । अनवद्यम् । युवानम् । सु-आध्यम् । जनयत् । सूदयत् । च
मनः । न । यः । अध्वनः । सद्यः । एति । एकः । सत्रा । सूरः । वस्वः । ईशे । राजाना । मित्रावरुणा । सुपाणी इतिसु-पाणी । गोषु । प्रियम् । अमृतम् । रक्षमाणा
मा । नः । अग्ने । सख्या । पित्र्याणि । प्र । मर्षिष्ठाः । अभि । विदुः । कविः । सन् । नभः । न । रूपम् । जरिमा । मिनाति । पुरा । तस्याः । अभि-शस्तेः । अधि । इहि
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0