भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.7

1.7.1

॥12॥.
-र्व्_1:1।13-
(र्व्_1,7)
इन्द्रम् । इत् । गाथिनः । बृहत् । इन्द्रम् । अर्केभिः । अर्किणः । इन्द्रम् । वाणीः । अनूषत

1.7.2

इन्द्रः । इत् । हर्योः । सचा । सम्-मिश्लः । आ । वचः-युजा । इन्द्रः । वज्री । हिरण्ययः

1.7.3

इन्द्रः । दीर्घाय । चक्षसे । आ । सूर्यम् । रोहयत् । दिवि । वि । गोभिः । अद्रिम् । ऐरयत्

1.7.4

इन्द्रः । वाजेषु । नः । अव । सहस्र-प्रधनेषु । च । उग्रः । उग्राभिः । ऊति-भिः

1.7.5

इन्द्रम् । वयम् । महाधने । इन्द्रम् । अर्भे । हवामहे । युजम् । वृत्रेषु । वज्रिणम्

1.7.6

॥13॥.
-र्व्_1:1।14-
सः । नः । वृषन् अमुम् । चरुम् । सत्रादावन् । अप । वृधि । अस्मभ्यम् । अप्रति-स्कुतः

1.7.7

तुञ्जे--तुञ्जे । ये । उत्-तरे । स्तोमाः । इन्द्रस्य । वज्रिणः । न । विन्धे । अस्य । सु-स्तुतिम्

1.7.8

वृषा । यूथाइव । वंसगः । कृष्टीः इयर्ति । ओजसा । ईशानः । अप्रति-स्कुतः

1.7.9

यः । एकः । चर्षणीनाम् । वसूनाम् । इरज्यति । इन्द्रः । पञ्च । क्षितीनाम्

1.7.10

इन्द्रम् । वः । विश्वतः । परि । हवामहे । जनेभ्यः । अस्माकम् । अस्तु । केवलः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc