ऋग्वेदसंहिता, पदपाठ · अध्याय 1.6
॥10॥.
-र्व्_1:1।11-
(र्व्_1,6)
युञ्जन्ति । ब्रध्नम् । अरुषम् । चरन्तम् । परि । तस्थुषः । रोचन्ते । रोचना । दिवि
युञ्जन्ति । अस्य । काम्या । हरी इति । विपक्षसा । रथे । शोणा । धृष्णू इति । नृ-वाहसा
केतुम् । कृण्वन् । अकेतवे । पेशः । मर्याः । अपेशसे । सम् । उषत्-भिः । अजायथाः
आत् । अह । स्वधाम् । अनु । पुनः । गर्भ-त्वम् आईरिरे । दधानाः । नाम । यज्ञियम्
वीळु । चित् । आरुजत्नु-भिः । गुहा । चित् । इन्द्र । वह्नि-भिः । अविन्दः । उस्रियाः । अनु
॥11॥.
-र्व्_1:1।12-
देव-यन्तः । यथा । मतिम् । अच्छ । विदत्-वसुम् । गिरः । महाम् । अनूषत । श्रुतम्
इन्द्रेण । सम् । हि । दृक्षसे । सम्-जग्मानः । अबिभ्युषा । मन्दू इति । समान-वर्चसा
अनवद्यैः । अभिद्यु-भिः । मखः । सहस्वत् । अर्चति । गणैः । इन्द्रस्य । काम्यैः
अतः । परिज्मन् । आ । गहि । दिवः । वा । रोचनात् । अधि । सम् । अस्मिन् । ऋञ्जते । गिरः
इतः । वा । सातिम् । ईमहे । दिव । वा । पार्थिवात् । अधि । इन्द्रम् । महः । वा । रजसः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0