भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.8

1.8.1

॥14॥.
-र्व्_1:1।15-
(र्व्_1,8)
आ । इन्द्र । सानसिम् । रयिम् । स-जित्वानम् । सदासहम् । वर्षिष्ठम् । ऊतये । भर

1.8.2

नि । येन । मुष्टि-हत्यया । नि । वृत्रा । रुणधामहै । त्वाऊतासः । नि । अर्वता

1.8.3

इन्द्र । त्वाऊतासः । आ । वयम् । वज्रम् । घना । ददीमहि । जयेम । सम् । युधि । स्पृधः

1.8.4

वयम् । शूरेभिः । अस्तृ-भिः । इन्द्र । त्वया । युजा । वयम् । सासह्यामपृतन्यतः

1.8.5

महान् । इन्द्रः । परः । च । नु । महि-त्वम् । अस्तु । वज्रिणे । द्यौः । न । प्रथिना । शवः

1.8.6

॥15॥.
-र्व्_1:1।16-
सम्-ओहे । वा । ये । आशत । नरः । तोकस्य । सनितौ । विप्रासः । वा । धियायवः

1.8.7

यः । कुक्षिः । सोम-पातमः । समुद्रः-इव । पिन्वते । उर्वीः । आपः । न । काकुदः

1.8.8

एव । हि । अस्य । सूनृता । वि-रप्शी । गो--मती । मही । पक्वा । शाखा । न । दाशुषे

1.8.9

एव । हि । ते । वि-भूतयः । ऊतयः । इन्द्र । मावते । सद्यः । चित् । सन्ति । दाशुषे

1.8.10

एव । हि । अस्य । काम्या । स्तोमः । उक्थम् । च । शंस्या । इन्द्राय । सोम-पीतये

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc