ऋग्वेदसंहिता, पदपाठ · अध्याय 1.67
॥10॥.
-र्व्_1:5।11-
(र्व्_1,67)
वनेषु । जायुः । मर्तेषु । मित्रः । वृणीते । श्रुष्तिम् । राजाइव । अजुर्यम्
क्षेमः । न । साधुः । क्रतुः । न । भद्रः । भुवत् । सु-आधीः । होता । हव्य-वाट्
हस्ते । दधानः । नृम्णा । विश्वानि । अमे । देवान् । धात् । गुहा । नि-सीदन्
विदन्ति । ईम् । अत्र । नरः । धियम्-धाः । हृदा । यत् । तष्टान् । मन्त्रान् । अशंसन्
अजः । न । क्षाम् । दाधार । पृथिवीम् । तस्तम्भ । द्याम् । मन्त्रेभिः । सत्यैः
प्रिया । पदानि । पश्वः । नि । पाहि । विश्व-आयुः । अग्ने । गुहा । गुहम् । गाः
यः । ईम् । चिकेत । गुहा । भवन्तम् । आ । यः । ससाद । धाराम् । ऋतस्य
वि । ये । चृतन्ति । ऋता । सपन्तः । आत् । इत् । वसूनि । प्र । ववाच । अस्मै
वि । यः । वीरुत्-सु । रोधत् । महि-त्वा । उत । प्र-जाः । उत । प्र-सूषु । अन्तरित् इ
चित्तिः । अपाम् । दमे । विश्व-आयुः । सद्म-इव । धीराः । सम्-माय । चक्रुः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0