भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.68

1.68.1

॥11॥.
-र्व्_1:5।12-
(र्व्_1,68)
श्रीणन् । उप । स्थात् । दिवम् । भुरण्युः । स्थातुः । चरथम् । अक्तून् । वि । ऊर्णोत्

1.68.2

परि । यत् । एषाम् । एकः । विश्वेषाम् । भुवत् । देवः । देवानाम् । महि-त्वा

1.68.3

आत् । इत् । ते । विश्वे । क्रतुम् । जुषन्त । शुष्कात् । यत् । देव । जीवः । जनिष्ठाः

1.68.4

भजन्त । विश्वे । देव-त्वम् । नाम । ऋतम् । सपन्तः । अमृतम् । एवैः

1.68.5

ऋतस्य । प्रेषाः । ऋतस्य । धीतिः । विश्व-आयुः । विश्वे । अपांसि । चक्रुः

1.68.6

यः । तुभ्यम् । दाशात् । यः । वा । ते । शिक्षात् । तस्मै । चिकित्वान् । रयिम् । दयस्व

1.68.7

होता । नि-सत्तः । मनोः । अपत्ये । सः । चित् । नु । आसाम् । पतिः । रयीणाम्

1.68.8

इच्छन्त । रेतः । मिथः । तनूषु । सम् । जानत । स्वैः । दक्षैः । अमूराः

1.68.9

पितुः । न । पुत्राः । क्रतुम् । जुषन्त । श्रोषन् । ये । अस्य । शासम् । तुरासः

1.68.10

वि । रायः । और्णोत् । दुरः । पुरु-क्षुः । पिपेश । नाकम् । स्तृ-भिः । दमूनाः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc