ऋग्वेदसंहिता, पदपाठ · अध्याय 1.66
॥9॥.
-र्व्_1:5।10-
(र्व्_1,66)
रयिः । न । चित्रा । सूरः । न । सम्-दृक् । आयुः । न । प्राणः । नित्यः । न । सूनुः
तक्वा । न । भूर्णिः । वना । सैसक्ति । पयः । न । धेनुः । शुचिः । विभावा
दाधार । क्षेमम् । ओकः । न । रण्वः । यवः । न । पक्वः । जेता । जनानाम्
ऋषिः । न । स्तुभ्वा । विक्षु । प्र-शस्तः । वाजी । न । प्रीतः । वयः । दधाति
दुरोक-शोचिः । क्रतुः । न । नित्यः । जायाइव । योनौ । अरम् । विश्वस्मै
चित्रः । यत् । अभ्राट् । श्वेतः । न । विक्षु । रथः । न । रुक्मी । त्वेषः । समत्-सु
सेनाइव । सृष्टा । अमम् । दधाति । अस्तुः । न । दिद्युत् । त्वेष-प्रतीका
यमः । ह । जातः । यमः । जनि-त्वम् । जारः । कनीनाम् । पतिः । जनीनाम्
तम् । वः । चराथा । वयम् । वसत्या अस्तम् । न । गावः । नक्षन्ते । इद्धम्
सिन्धुः । न । क्षोदः । प्र । नीचीः । ऐनोत् । नवन्ते । गावः । स्वः । दृशीके
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0