भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.63

1.63.1

॥3॥.
-र्व्_1:5।4-
(र्व्_1,63)
त्वम् । महान् । इन्द्र । यः । ह । शुष्मैः । द्यावा । जज्ञानः । पृथिवी इति । अमे । घाः । यत् । ह । ते । विश्वा । गिरयः । चित् । अभ्वा । भिया । दृळ्हासः । किरणाः । न । ऐजन्

1.63.2

आ । यत् । हरी इति । इन्द्र । वि-व्रता । वेः । आ । ते । वज्रम् । जरिता । बाह्वोः । धात् । येन । अविहर्यतक्रतो इत्य् अविहर्यत-क्रतो । अमित्रान् । पुरः । इष्णासि । पुरु-हूत । पूर्वीः

1.63.3

त्वम् । सत्यः । इन्द्र । धृष्णुः । एतान् । त्वम् । ऋभुक्षाः । नर्यः । त्वम् । षाट् । त्वम् । शुष्णम्
वृजने । पृक्षे । आणौ । यूने । कुत्साय । द्युमते । सचा । अहन्

1.63.4

त्वम् । ह । त्यत् । इन्द्र । चोदीः । सखा । वृत्रम् । यत् । वज्रिन् । वृष-कर्मन् । उभ्नाः । यत् । ह । शूर । वृष-मणः । पराचैः । वि । दस्यून् । योनौ । अकृतः । वृथाषाट्

1.63.5

त्वम् । ह । त्यत् । इन्द्र । अरिषण्यन् । दृळ्हस्य । चित् । मर्तानाम् । अजुष्टौ । वि । अस्मत् । आ । काष्ठाः । अर्वते । वः । घनाइव । वज्रिन् । श्नथिहि । अमित्रान्

1.63.6

॥4॥.
-र्व्_1:5।5-
त्वाम् । ह । त्यत् । इन्द्र । अर्ण-सातौ । स्वः-मीळ्हे । नरः । आजा । हवन्ते । तव । स्वधावः । इयम् । आ । स-मर्ये । ऊतिः । वाजेषु । अतसाय्या । भूत्

1.63.7

त्वम् । ह । त्यत् । इन्द्र । सप्त । युध्यन् । पुरः । वज्रिन् । पुरु-कुत्साय । दर्दः । बर्हिः । न । यत् । सु-दासे । वृथा । वर्क । अंहोः । राजन् । वरिवः । पूरवे । कः

1.63.8

त्वम् । त्याम् । नः । इन्द्र । देव । चित्राम् । इषम् । आपः । न । पीपयः । परि-ज्मन् । यया । शूर । प्रति । अस्मभ्यम् । यंसि । त्मनम् । ऊर्जम् । न । विश्वध । क्षरध्यै

1.63.9

अकारि । ते । इन्द्र । गोतमेभिः । ब्रह्माणि । आउक्ता । नमसा । हरि-भ्याम् । सु-पेशसम् । वाजम् । आ । भर । नः । प्रातः । मक्षु । धियावसुः । जगम्यात्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc