ऋग्वेदसंहिता, पदपाठ · अध्याय 1.62
॥29॥.
-र्व्_1:5।1-
(र्व्_1,62)
प्र । मन्महे । शवसानाय । शूषम् । आङ्गूषम् । गिर्वणसे । अङ्गिरस्वत् । सुवृक्त् इ-भिः । स्तुवते । ऋग्मियाय । अर्चाम अर्कम् । नरे । वि-श्रुताय
प्र । वः । महे । महि । नमः । भरध्वम् । आङ्गूष्यम् । शवसानाय । साम । येन । नः । पूर्वे । पितरः । पद-ज्ञाः । अर्चन्तः । अङ्गिरसः । गाः । अविन्दन्
इन्द्रस्य । अङ्गिरसाम् । च । इष्टौ । विदत् । सरमा । तनयाय । धासिम् । बृहस्पतिः । भिनत् । अद्रिम् । विदत् । गाः । सम् । उस्रियाभिः । वावशन्त । नरः
सः । सु-स्तुभा । सः । स्तुभा । सप्त । विप्रैः । स्वरेण । अद्रिम् । स्वर्यः । नव-ग्वैः । सरण्यु-भिः । फलि-गम् । इन्द्र । शक्र । वलम् । रवेण । दश-ग्वैः
गृणानः । अङ्गिरः-भिः । दस्म । वि । वः । उषसा । सूर्येण । गोभिः । अन्धः । वि । भूम्याः । अप्रथयः । इन्द्र । सानु । दिवः । रजः । उपरम् । अस्तभायः
॥1॥.
-र्व्_1:5।2-
तत् । ओं इति । प्रयक्ष-तमम् । अस्य । कर्म । दस्मस्य । चारु-तमम् । अस्ति । दंसः । उप-ह्वरे । यत् । उपराः । अपिन्वत् । मधु-अर्णसः । नद्यः । चतस्रः
द्विता । वि । वव्रे । स-नजा । सनीळे इतिस-नीळे । अयास्यः । स्तवमानेभिः । अर्कैः । भगः । न । मेनेइति । परमे । वि-ओमन् । अधारयत् । रोदसी इति । सु-दंसाः
सनात् । दिवम् । परि । भूम । विरूपेइतिवि-रूपे । पुनः-भुवा । युवती इति । स्वेभिः । एवैः । कृष्णेभिः । अक्ता । उषाः । रुशत्-भिः । वपुः-भिः । आ । चरतः । अन्याअन्या
सनेमि । सख्यम् । सु-अपस्यमानः । सूनुः । दाधार । शवसा । सु-दंसाः । आमासु । चित् । दधिषे । पक्वम् । अन्तरिति । पयः । कृष्णासु । रुशत् । रोहिणीषु
सनात् । स-नीळाः । अवनीः । अवाताः । व्रता । रक्षन्ते । अमृताः । सहः-भिः । पुरु । सहस्रा । जनयः । न । पत्नीः । दुवस्यन्ति । स्वसारः । अह्रयाणम्
॥2॥.
-र्व्_1:5।3-
सनायुवः । नमसा । नव्यः । अर्कैः । वसु-यवः । मतयः । दस्म । दद्रुः । पतिम् । न । पत्नीः । उशतीः । उशन्तम् । स्पृशन्ति । त्वा । शवसावन् । मनीषाः
सनात् । एव । तव । रायः । गभस्तौ । न । क्षीयन्ते । न । उप । दस्यन्ति । दस्म । द्युमान् । असि । क्रतु-मान् । इन्द्र । धीरः शिक्ष । शची-वः । तव । नः । शचीभिः
सनायते । गोतमः । इन्द्र । नव्यम् । अतक्षत् । ब्रह्म । हरि-योजनाय । सु-नीथाय । नः । शवसान । नोधाः । प्रातः । मक्षु । धियावसुः । जगम्यात्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0