ऋग्वेदसंहिता, पदपाठ · अध्याय 1.64
॥5॥.
-र्व्_1:5।6-
(र्व्_1,64)
वृष्णे । शर्धाय । सु-मखाय । वेधसे । नोधः । सु-वृक्तिम् । प्र । भर । मरुत्-भ्यः । अपः । न । धीरः । मनसा । सु-हस्त्यः । गिरः । सम् । अञ्जे । विदथेषु । आभुवः
ते । जज्ञिरे । दिवः । ऋष्वासः । उक्षणः । रुद्रस्य । मर्या । असुराः । अरेपसः । पावकासः । शुचयः । सूर्याः-इव । सत्वानः । न । द्रप्सिनः । घोर-वर्पसः
युवानः । रुद्राः । अजराः । अभोक्-हनः । ववक्षुः । अध्रि-गावः । पर्वताः-इव । दृळ्हा । चित् । विश्वा । भुवनानि । पार्थिवा । प्र । च्यावयन्ति । दिव्यानि । मज्मना
चित्रैः । अञ्जि-भिः । वपुषे । वि । अञ्जते । वक्षः-सु । रुक्मान् । अधि । येतिरे । शुभे । अंसेषु । एषाम् । नि । मिमृक्षुः । ऋष्टयः । साकम् । जज्ञिरे । स्वधया । दिवः । नरः
ईशान-कृतः । धुनयः । रिशादसः । वातान् । वि-द्युतः । तविषीभिः । अक्रत । दुहन्ति । ऊधः । दिव्यानि । धूतयः । भूमिम् । पिन्वन्ति । पयसा । परि-ज्रयः
॥6॥.
-र्व्_1:5।7-
पिन्वन्ति । अपः । मरुतः । सु-दानवः । पयः । घृत-वत् । विदथेषु । आभुवः । अत्यम् । न । मिहे । वि । नयन्ति । वाजिनम् । उत्सम् । दुहन्ति । स्तनयन्तम् । अक्षितम्
महिषासः । मायिनः । चित्र-भानवः । गिरयः । न । स्व-तवसः । रघु-स्यदः । मृगाः-इव । हस्तिनः । स्वादथ । वना । यत् । आरुणीषु । तविषीः । अयुग्ध्वम्
सिंहाः-इव । नानदति । प्र-चेतसः । पिशाः-इव । सु-पिशः । विश्व-वेदसः । क्षपः । जिन्वन्तः । पृषतीभिः । ऋष्टि-भिः । सम् । इत् । स-बाधः । शवसा । अहि-मन्यवः
रोदसी इति । आ । वदत । गण-श्रियः । नृ-साचः । शूराः । शवसा । अहि-मन्यवः । आ । वन्धुरेषु । अमतिः । न । दर्शता । विद्युत् । न । तस्थौ । मरुतः । रथेषु । वः
विश्व-वेदसः । रयि-भिः । सम्-ओकसः । सम्-मिश्लासः । तविषीभिः । वि-रप्शिनः । अस्तारः । इषुम् । दधिरे । गभस्त्योः । अनन्त-शुष्माः । वृष-खादयः । नरः
॥7॥.
-र्व्_1:5।8-
हिरण्ययेभिः । पवि-भिः । पयः-वृधः । उत् । जिघ्नन्ते । आपथ्यः । न । पर्वतान् । मखाः । अयासः । स्व-सृतः । ध्रुव-च्युतः । दुध्र-कृतः । मरुतः । भ्राजत्-ऋष्टयः
घृषुम् । पावकम् । वनिनम् । वि-चर्षणिम् । रुद्रस्य । सूनुम् । हवसा । गृणीमस् इ । रजः-तुरम् । तवसम् । मारुतम् । गणम् । ऋजीषिणम् । वृषणम् । सश्चत । श्रिये
प्र । नु । सः । मर्तः । शवसा । जनान् । अति । तस्थौ । वः । ऊती । मरुतः । यम् । आवत । अर्वत्-भिः । वाजम् । भरते । धना । नृ-भिः । आपृच्छ्यम् । क्रतुम् । आ । क्षेति । पुष्यति
चर्कृत्यम् । मरुतः । पृत्-सु । दुस्तरम् । द्यु-मन्तम् । शुष्मम् । मघवत्-सु । धत्तन । धन-स्पृतम् । उक्थ्यम् । विश्व-चर्षणिम् । तोकम् । पुष्येम । तनयम् । शतम् । हिमाः
नु । स्थिरम् । मरुतः । वीर-वन्तम् । ऋति-सहम् । रयिम् । अस्मासु । धत्त । सहस्रिणम् । शतिनम् । शूशु-वांसम् । प्रातः । मक्षु । धियावसुः । जगम्यात्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0