भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.54

1.54.1

॥16॥.
-र्व्_1:4।17-
(र्व्_1,54)
मा । नः । अस्मिन् । मघवन् । पृत्-सु । अंहसि । नहि । ते । अन्तः । शवसः । परि-नशे । अक्रन्दयः । नद्यः । रोरुवत् । वना । कथा । न । क्षोणीः । भियसा । सम् । आरत

1.54.2

अर्च । अक्राय । शाकिने । शची-वते । शृण्वन्तम् । इन्द्रम् । महयन् । अभि । स्तुहि । यः । धृष्णुना । शवसा । रोदसी इति । उभे इति । वृषा । वृष-त्वा । वृषभः । नि-ऋञ्जते

1.54.3

अर्च । दिवे । बृहते । शूष्यम् । वचः । स्व-क्षत्रम् । यस्य । धृषतः । धृषत् । मनः । बृहत्-श्रवाः । असुरः । बर्हणा । कृतः । पुरः । हरि-भ्याम् । वृषभः । रथः । हि । सः

1.54.4

त्वम् । दिवः । बृहतः । सानु । कोपयः । अव । त्मना । धृषता । शम्बरम् । भिनत् । यत् । मायिनः । व्रन्दिनः । मन्दिना । धृषत् । शिताम् । गभस्तिम् । अशनिम् । पृतन्यसि

1.54.5

नि । यत् । वृणक्षि । श्वसनस्य । मूर्धनि । शुष्णस्य । चित् । व्रन्दिनः । रोरुवत् । वना । प्राचीनेन । मनसा । बर्हणावता । यत् । अद्य । चित् । कृणवः । कः । त्वा । परि

1.54.6

॥17॥.
-र्व्_1:4।18-
त्वम् । आविथ । नर्यम् । तुर्वशम् । यदुम् । त्वम् । तुर्वीतिम् । वय्यम् । शतक्रतो इतिशत-क्रतो । त्वम् । रथम् । एतशम् । कृत्व्ये । धने । त्वम् । पुरः । नवतिम् । दम्भयः । नव

1.54.7

सः । घ । राजा । सत्-पतिः । शूशुवत् । जनः । रात-हव्यः । प्रति । यः । शासम् । इन्वति । उक्था । वा । यः । अभि-गृणाति । राधसा । दानुः । अस्मै । उपरा । पिन्वते । द् इवः

1.54.8

असमम् । क्षत्रम् । असमा । मनीषा । प्र । सोम-पाः । अपसा । सन्तु । नेमे । ये । ते । इन्द्र । ददुषः । वर्धयन्ति । महि । क्षत्रम् । स्थविरम् । वृष्ण्यम् । च

1.54.9

तुभ्य । इत् । एते । बहुलाः । अद्रि-दुग्धाः । चमू-सदः । चमसाः । इन्द्र-पानाः । वि । अश्नुहि । तर्पय । कामम् । एषाम् । अथ । मनः । वसु-देयाय । कृष्व

1.54.10

अपाम् । अतिष्ठत् । धरुण-ह्वरम् । तमः । अन्तः । वृत्रस्य । जठरेषु । पर्वतः । अभि । ईम् । इन्द्रः । नद्यः । वव्रिणा । हिताः । विश्वाः । अनु-स्थाः । प्रवणेषु । जिघ्नते

1.54.11

सः । शे--वृधम् । अधि । धाः । द्युम्नम् । अस्मे इति । महि । क्षत्रम् । जनाषाट् । इन्द्र । तव्यम् । रक्ष । च । नः । मघोनः । पाह् इ । सूरीन् । राये । च । नः । सु-अपत्यै । इषे । धाः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc