भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.53

1.53.1

॥14॥.
-र्व्_1:4।15-
(र्व्_1,53)
नि । ओं इति । सु । वाचम् । प्र । महे । भरामहे । गिरः । इन्द्राय । सदने । विवस्वतः । नु । चित् । हि । रत्नम् । ससताम्-इव । अविदत् । न । दुः-स्तुतिः । द्रविणः-देषु । शस्यते

1.53.2

दुरः । अश्वस्य । दुरः । इन्द्र । गोः । असि । दुरः । यवस्य । वसुनः । इनः । पतिः । शिक्षानरः । प्र-दिवः । अकाम-कर्शनः । सखा । सखि-भ्यः । तम् । इदम् । गृणीमसि

1.53.3

शची-वः । इन्द्र । पुरु-कृत् । द्युमत्-तम । तव । इत् । इदम् । अभितः । चेकिते । वसु । अतः । सम्-गृभ्य । अभि-भूते । आ । भर । मा । त्वायतः । जरितुः । कामम् । ऊनयीः

1.53.4

एभिः । द्युभिः । सु-मनाः । एभिः । इन्दु-भिः । निः-उन्धानः । अमतिम् । गोभिः । अश्विना । इन्द्रेण । दस्युम् । दरयन्तः । इन्दु-भिः । युत-द्वेषसः । सम् इषा । रभेमहि

1.53.5

सम् । इन्द्र । राया । सम् । इषा । रभेमहि । सम् । वाजेभिः । पुरु-चन्द्रैः । अभिद्यु-भिः । सम् । देव्या । प्र-मत्या । वीर-शुष्मया । गो--अग्रया । अश्व-वत्या । रभेमहि

1.53.6

॥15॥.
-र्व्_1:4।16-
ते । त्वा । मदाः । अमदन् । तानि । वृष्ण्या । ते । सोमासः । वृत्र-हत्येषु । सत्-पते । यत् । कारवे । दश । वृत्राणि । अप्रति । बर्हिष्मते । नि । सहस्राणि । बर्हयः

1.53.7

युधा । युधम् । उप । घ । इत् । एषि । धृश्णु-या । पुरा । पुरम् । सम् । इदम् । हंसि । ओजसा । नम्या । यत् । इन्द्र । सख्या । परावति । नि-बर्हयः । नमुच्म् । नाम । मायिनम्

1.53.8

त्वम् । करञ्जम् । उत । पर्णयम् । वधीः । तेजिष्ठया । अतिथि-ग्वस्य । वर्तनी । त्वम् । शता । वर्ङ्गेदस्य । अभिनत् । पुरः । अननु-दः । परि-सूताः । ऋजिश्वना

1.53.9

त्वम् । एतान् । जन-राज्ञः । द्विः । दश । अबन्धुना । सु-श्रवसा । उप-जग्मुषः । षष्टिम् । सहस्रा । नवतिम् । नव । श्रुतः । नि । चक्रेण । रथ्या । दुः-पदा । अवृणक्

1.53.10

त्वम् । आविथ । सु-श्रवसम् । तव । ऊति-भिः । तव । त्राम-भिः । इन्द्र । तूर्वयाणम् । त्वम् । अस्मै । कुत्सम् । अतिथि-ग्वम् । आयुम् । महे । राज्ञे । यूने । अरन्धनायः

1.53.11

ये । उत्-ऋचि । इन्द्र । देव-गोपाः । सखायः । ते । शिव-तमाः । असाम । त्वाम् । स्तोषाम । त्वया । सु-वीराः । द्राघीयः । आयुः । प्र-तरम् । दधानाः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc