ऋग्वेदसंहिता, पदपाठ · अध्याय 1.55
॥18॥.
-र्व्_1:4।19-
(र्व्_1,55)
दिवः । चित् । अस्य । वरिमा । वि । पप्रथ । इन्द्रम् । न । मह्ना । पृथिवी । चन । प्रति । भीमः । तुविष्मान् । चर्षणि-भ्यः । आतपः । शिशीते । वज्रम् । तेजसे । न । वंसगः
सः । अर्णवः । न । नद्यः । समुद्रियः । प्रति । गृभ्णाति । वि-श्रिताः । वरीम-भिः । इन्द्रः । सोमस्य । पीतये । वृष-यते । सनात् । सः । युध्मः । ओजसा । पनस्यते
त्वम् । तम् । इन्द्र । पर्वतम् । न । भोजसे । महः । नृम्णस्य । धर्मणाम् । इरज्यसि । प्र । वीर्येण । देवताति । चेकिते । विश्वस्मै । उग्रः । कर्मणे । पुरः-ह् इतः
सः । इत् । वने । नमस्यु-भिः । वचस्यते । चारु । जनेषु । प्र-ब्रुवाणः । इन्द्रि यम् । वृषा । छन्दुः । भवति । हर्यतः । वृषा । क्षेमेण । धेनाम् । मघवा । यत् । इन्वति
सः । इत् । महानि । सम्-इथानि । मज्मना । कृणोति । युध्मः । ओजसा । जनेभ्यः । अध । चन । श्रत् । दधति । त्विषि-मते । इन्द्राय । वज्रम् । नि-घनिघ्नते । वधम्
॥19॥.
-र्व्_1:4।20-
सः । हि । श्रवस्युः । सदनानि । कृत्रिमा । क्ष्मया । वृधानः । ओजसा । वि-नाशयन् । ज्योतींषि । कृण्वन् । अवृकाणि । यज्यवे । अव । सु-क्रतुः । सर्तवै । अपः । सृजत्
दानाय । मनः । सोम-पावन् । अस्तु । ते । अर्वाञ्चा । हरी इति । वन्दन-श्रुत् । आ । कृधि । यमिष्ठासः । सारथयः । ये । इन्द्र्च । ते । न । त्वा । केताः । आ । दभ्नुवन्ति । भूर्णयः
अप्र-क्षितम् । वसु । बिभर्षि । हस्तयोः । अषाळ्हम् । सहः । तन्वि । सृउतः । दधे । आवृतासः । अवतासः । न । कर्तृ-भिः । तनूषु । ते । क्रतवः । इन्द्र । भूरयः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0