भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.52

1.52.1

॥11॥.
-र्व्_1:4।12-
(र्व्_1,52)
त्यम् । सु । मेषम् । महय । स्वः-विदम् । शतम् । यस्य । सु-भ्वः । साकम् । ईरते । अत्यम् । न । वाजम् । हवन-स्यदम् । रथम् । आ । इन्द्रम् । ववृत्याम् । अवसे । सुवृक्ति-भिः

1.52.2

सः । पर्वतः । न । धरुणेषु । अच्युतः । सहस्रम्-ऊतिः । तविषीषु । ववृधे । इन्द्रः । यत् । वृत्रम् । अवधीत् । नदी-वृतम् । उब्जन् । अर्णांसि । जर्हृषाणः । अन्धसा

1.52.3

सः । हि । द्वरः । द्वरिषु । वव्रः । ऊधनि । चन्द्र-बुध्नः । मद-वृद्धः । मनीषि-भिः । इन्द्रम् । तम् । अह्वे । सु-अपस्यया । धिया । मंहिष्ठ-रातिम् । सः । हि । पप्रिः । अन्धसः

1.52.4

आ । यम् । पृणन्ति । दिवि । सद्म-बर्हिषः । समुद्रम् । न । सु-भ्वः । स्वाः । अभिष्टयः । तम् । वृत्र-हत्ये । अनु । तस्थुः । ऊतयः । शुष्माः । इन्द्रम् । अवाताः । अह्रुत-प्सवः

1.52.5

अभि । स्व-वृष्तिम् । मदे । अस्य । युध्यतः । रघ्वीः-इव । प्रवणे । सस्रुः । ऊतयः । इन्द्रः । यत् । वज्री । धृषमाणः । अन्धसा । भिनत् । वलस्य । परिधीन्-इव । त्रितः

1.52.6

॥12॥.
-र्व्_1:4।13-
परि । ईम् । घृणा । चरति । तित्विषे । शवः । अपः । वृत्वी । रजसः । बुध्नम् । आ । अशयत् । वृत्रस्य । यत् । प्रवणे । दुः-गृभिश्वनः । नि-जघन्थ । हन्वोः । इन्द्र । तन्यतुम्

1.52.7

ह्रदम् । न । हि । त्वा । नि-ऋषन्ति । ऊर्मयः । ब्रह्माणि । इन्द्र । तव । यानि । वर्धना । त्वष्टा । चित् । ते । युज्यम् । ववृधे । शवः । ततक्ष । वज्रम् । अभिभूति--ओजसम्

1.52.8

जघन्वान् । ओं इति । हरि-भिः । सम्भृतक्रतो इतिसम्भृत-क्रतो । इन्द्र । वृत्रम् । मनुषे । गातु-यन् । अपः । अयच्छथाः । बाह्वोः । वज्रम् । आयसम् । अधारयः । दिवि । आ । सूर्यम् । दृशे

1.52.9

बृहत् । स्व-चन्द्रम् । अम-वत् । यत् । उक्थ्यम् । अकृण्वत । भियसा । रोहणम् । दि वः । यत् । मानुष-प्रधनाः । इन्द्रम् । ऊतयः । स्वः । नृ-षाचः । मरुतः । अमदन् । अनु

1.52.10

द्यौः । चित् । अस्य । अम-वान् । अहेः । स्वनात् । अयोयवीत् । भियसा । वज्रः । इन्द्र । ते । वृत्रस्य । यत् । बद्बधानस्य । रोदसी इति । मदे । सुतस्य । शवसा । अभिनत् । शिरः

1.52.11

॥13॥.
-र्व्_1:4।14-
यत् । इत् । नु । इन्द्र । पृथिवी । दश-भुजिः । अहानि । विश्वा । ततनन्त । कृष्टयः । अत्र । अह । ते । मघ-वन् । वि-श्रुतम् । सहः । द्याम् । अनु । शवसा बर्हणा । भुवत्

1.52.12

त्वम् । अस्य । पारे । रजसः । वि-ओमनः । स्वभूति-ओजाः । अवसे । धृषत्-मनः । चकृषे । भूमिम् । प्रति-मानम् । ओजसः । अपः । [स्वर् इति] स्वः । परि-भूः । एषि । आ । दिवम्

1.52.13

त्वम् । भुवः । प्रति-मानम् । पृथिव्याः । ऋष्व-वीरस्य । बृहतः । पतिः । भूः । विश्वम् । आ । अप्राः । अन्तरिक्षम् । महि-त्वा । सत्यम् । अद्धा । नकिः । अन्यः । त्वावान्

1.52.14

न । यस्य । द्यावापृथिवी इति । अनु । व्यचः । न । सिन्धवः । रजसः । अन्तम् । आनशुः । न । उत । स्व-वृष्टिम् । मदे । अस्य । युध्यतः । एकः । अन्यत् । चकृषे । विश्वम् । आनुषक्

1.52.15

आर्चन् । अत्र । मरुतः । सस्मिन् । आजौ । विश्वे । देवासः । अमदन् । अनु । त्वा । वृत्रस्य । यत् । भृष्टि-मता । वधेन । नि । त्वम् । इन्द्र । प्रति । आनम् । जघन्थ

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc