ऋग्वेदसंहिता, पदपाठ · अध्याय 1.51
॥8॥.
-र्व्_1:4।9-
(र्व्_1,51)
अभि । त्यम् । मेषम् । पुरु-हूतम् । ऋग्मियम् । इन्द्रम् । गीः-भिः । मदत । वस्वः । अर्णवम् । यस्य । द्यावः । न । वि-चरन्ति । मानुषा । भुजे । मंहिष्ठम् । अभि । विप्रम् । अर्चत
अभि । ईम् । अवन्वन् । सु-अभिष्टिम् । ऊतयः । अन्तरिक्ष-प्राम् । तविषीभिः । आवृतम् । इन्द्रम् । दक्षासः । ऋभवः । मद-च्युतम् । शत-क्रतुम् । जवनी । सूनृता । आ । अरुहत्
त्वम् । गोत्रम् । अङ्गिरः-भ्यः । अवृणोः । अप । उत । अत्रये । शत-दुरेषु । गातु-वित् । ससेन । चित् । वि-मदाय । अवहः । वसु । आजौ । अद्रिम् । ववसानस्य । नतर्यन्
त्वम् । अपाम् । अपि-धाना । अवृणोः । अप । अधारय । पर्वते । दानु-मत् । वसु । वृत्रम् । यत् । इन्द्र । शवसा । अवधीः । अहिम् । आत् । इत् । सूर्यम् । दिवि । आ । अरोहयः । दृशे
त्वम् । मायाभिः । अप । मायिनः । अधमः । स्वधाभिः । ये । अधि । शुप्तौ । अजुह्वत । त्वम् । पिप्रोः । नृ-मनः । प्र । अरुजः । पुरः । प्र । ऋजिश्चानम् । दस्यु-हत्येषु । आविथ
॥9॥.
-र्व्_1:4।10-
त्वम् । कुत्सम् । शुष्ण-हत्येषु । आविथ । अरन्धयः । अतिथि-ग्वाय । शम्बरम् । महान्तम् । चित् । अर्बुदम् । नि । क्रमीः । पदा । सनात् । एव । दस्यु-हत्याय । जज्ञिषे
त्वे इति । विश्वा । तविषी । सध्र्यक् । हिता । तव । राधः । सोम-पीथाय । हर्षते । तव । वज्रः । चिकिते । बाह्वोः । हितः । वृश्च । शत्रोः । अव । विश्वानि । वृष्ण्या
वि । जानीहि । आर्यान् । ये । च । दस्यवः । बर्हिष्मते । रन्धय । शासत् । अव्रतान् । शाकी । भव । यजमानस्य । चोदिता । विश्वा । इत् । ता । ते । सध-मादेषु । चाकन
अनु-व्रताय । रन्धयन् । अप-व्रतान् । आभूभिः । इन्द्रः । श्नथयन् । अनाभुवः । वृद्धस्य । चित् । वर्धतः । द्याम् । इनक्षतः । स्तवानः । वम्रः । वि । जघान । सम्-दिहः
तक्षत् । यत् । ते । उशना । सहसा । सहः । वि । रोदसी इति । मज्मना । बाधते । शवः । आ । त्वा । वातस्य । नृ-मनः । मनः-युजः । आ । पूर्यमाणम् । अवहन् । अभि । श्रवः
॥10॥.
-र्व्_1:4।11-
मन्दिष्ट । यत् । उशने । काव्ये । सचा । इन्द्रः । वङ्कूइति । वङ्कु-तरा । अधि । तिष्ठत् इ । उग्रः । ययिम् । निः । अपः । स्रोतसा । असृजत् । वि । शुष्णस्य । दृंहिताः । ऐरयत् । पुरः
आ । स्म । रथम् । वृष-पानेषु । तिष्ठसि । शार्यातस्य । प्र-भृताः । येषु । मन्दसे । इन्द्र । यथा । सुत-सोमेषु । चाकनः । अनर्वाणम् । श्लोकम् । आ । रोहसे । दिवि
अददाः । अर्भाम् । महते । वचस्यवे । कक्षीवते । वृचयाम् । इन्द्र । सुन्वते । मेना । अभवः । वृषणश्वस्य । सुक्रतो इतिसु-क्रतो । विश्वा । इत् । ता । ते । सवनेषु । प्र-वाच्या
इन्द्रः । अश्रायि । सु-ध्यः । निरेके । पज्रेषु । स्तोमः । दुर्यः । न । यूपः । अश्व-युः । गव्युः । रथ-युः । वसु-युः । इन्द्रः । इत् । रायः । क्षयति । प्र-यन्ता
इदम् । नमः । वृषभाय । स्व-राजे । सत्य-शुष्माय । तवसे । अवाचि । अस्मिन् । इन्द्र । वृजने । सर्व-वीराः । स्मत् । सूरि-भिः । तव । शर्मन् । स्याम
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0