भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.50

1.50.1

॥6॥.
-र्व्_1:4।7-
(र्व्_1,50)
उत् । ओं इति । त्यम् । जात-वेदसम् । देवम् । वहन्ति । केतवः । दृशे । विश्वाय । सूर्यम्

1.50.2

अप । त्ये । तायवः । यथा । नक्षत्रा । यन्ति । अक्तु-भिः । सूराय । विश्व-चक्षसे

1.50.3

अदृश्रम् । अस्य । केतवः । वि । रश्मयः । जनान् । अनु । भ्राजन्तः । अग्नयः । यथा

1.50.4

तरणिः । विश्व-दर्शतः । ज्योतिः-कृत् । असि । सूर्य । विश्वम् । आ । भासि । रोचनम्

1.50.5

प्रत्यङ् । देवानाम् । विशः । प्रत्यङ् । उत् । एषि । मानुषान् । प्रत्यङ् । विश्वम् । स्वः । दृशे

1.50.6

॥7॥.
-र्व्_1:4।8-
येन । पावक । चक्षसा । भुरण्यन्तम् । जनान् । अनु । त्वम् । वरुण । पश्यसि

1.50.7

वि । द्याम् । एषि । रजः । पृथु । अहा । मिमानः । अक्तु-भिः । पश्यन् । जन्मानि । सूयर्

1.50.8

सप्त । त्वा । हरितः । रथे । वहन्ति । देव । सूर्य । शोचिः-केशम् । वि-चक्षण

1.50.9

अयुक्त । सप्त । शुन्ध्युवः । सूरः । रथस्य । नप्त्यः । ताभिः । याति । स्वयुक्ति-भिः

1.50.10

उत् । वयम् । तमसः । परि । ज्योतिः । पश्यन्तः । उत्-तरम् । देवम् । देव-त्रा । सूर्यम् । अगन्म । ज्योतिः । उत्-तमम्

1.50.11

उत्-यन् । अद्य । मित्र-महः । आरोहन् । उत्-तराम् । दिवम् । हृत्-रोगम् । मम । सूर्य । हरिमाणम् । च । नाशय

1.50.12

शुकेषु । मे । हरिमाणम् । रोपणाकासु । दध्मसि । अथो इति । हारिद्रवेषु । मे । हरिमाणम् । नि । दध्मसि

1.50.13

उत् । अगात् । अयम् । आदित्यः । विश्वेन । सहसा । सह । द्विषन्तम् । मह्यम् । रन्धयन् । मो इति । अहम् । द्विषते । रधम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc