ग्रंथ पाठ
ऋग्वेदसंहिता, पदपाठ · अध्याय 1.49
1.49.1
॥5॥.
-र्व्_1:4।6-
(र्व्_1,49)
उषः । भद्रेभिः । आ । गहि । दिवः । चित् । रोचनात् । अधि । वहन्तु । अरुण-प्सवः । उप । त्वा । सोमिनः । गृहम्
1.49.2
सु-पेशसम् । सुखम् । रथम् । यम् । अधि-अस्थाः । उषः । त्वम् । तेन । सु-श्रवसम् । जनम् । प्र । अव । अद्य । दुहितः । दिवः
1.49.3
वयः । चित् । ते । पतत्रिणः । द्विपत् । चतुः-पत् । अर्जुनि । उषः । प्र । आरन् ऋतून् । अनु । दिवः । अन्तेभ्यः । परि
1.49.4
व्यि-उच्छन्ती । हि । रश्मि-भिः । विश्वम् । आभासि । रोचनम् । ताम् । त्वाम् । उषः । वसु-यवः । गीः-भिः । कण्वाः । अहूषत
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0