ऋग्वेदसंहिता, पदपाठ · अध्याय 1.48
॥2॥.
-र्व्_1:4।3-
(र्व्_1,48)
सह । वामेन । नः । उषः । वि । उच्छ । दुहितः । दिवः । सह । द्युम्नेन । बृहता । विभावरि । राया । देवि । दास्वती
अश्व-वतीः । गो--मतीः । विश्व-सुविदः । भूरि । च्यवन्त । वस्तवे । उत् । ईरय । प्रति । मा । सूनृताः । उषः । चोद । राधः । मघोनाम्
उवास । उषाः । उच्छात् । च । नु । देवी । जीरा । रथानाम् । ये । अस्याः । आचरणेषु । दध्रिरे । समुद्रे । न । श्रवस्यवः
उषः । ये । ते । प्र । यामेषु । युञ्जते । मनः । दानाय । सूरयः । अत्र । अह । तत् । कण्वः । एषाम् । कण्व-तमः । नाम । गृणाति । नृणाम्
आ । घ । योषाइव । सूनरी । उषाः । याति । प्र-भुञ्जती । जरयन्ती । वृजनम् । पत्-वत् । ईयते । उत् । पातयति । पक्षिणः
॥3॥.
-र्व्_1:4।4-
वि । या । सृजति । समनम् । वि । अर्थिनः । पदम् । न । वेति । ओदती । वयः । नकि ः । ते । पप्तिवांसः । आसतेवि-उष्टौ वाजिनी-वति
एषा । अयुक्त । परावतः । सूर्यस्य । उत्-अयनात् । अधि । शतम् । रथेभिः । सु-भगा । उषाः । इयम् । वि । याति । अभि । मानुषान्
विश्वम् । अस्याः । ननाम । चक्षसे । जगत् । ज्योतिः । कृणोति । सूनरी । अप । द्वेषः । मघोनी । दिवः । उषाः । उच्छत् । अप । स्रिधः
उषः । आ । भाहि । भानुना । चन्द्रेण । दुहितः । दिवः । आवहन्ती । भूरि । अस्मभ्यम् । सौभगम् । वि-उच्छन्ती । दिविष्टिषु
विश्वस्य । हि । प्राणनम् । जीवनम् । त्वे इति । वि । यत् । उच्छसि । सूनरि । सा । नः । रथेन । बृहता । विभावरि । श्रुधि । चित्र-मघे । हवम्
॥4॥.
-र्व्_1:4।5-
उषः । वाजम् । हि । वंस्व । यः । चित्रः । मानुषे । जने । तेन । आ । वह । सु-कृतः । अध्वरान् । उप । ये । त्वा । गृणन्ति । वह्नयः
विश्वान् । देवान् । आ । वह । सोम-पीतये । अन्तरिक्षात् । उषः । त्वम् । सा । अस्मासु । घाः । गो--मत् । अश्व-वत् । उक्थ्यम् । उषः । वाजम् । सु-वीर्यम्
यस्याः । रुशन्तः । अर्चयः । प्रति । भद्राः । अदृक्षत । सा । नः । रयिम् । व् इश्व-वारम् । सु-पेशसम् । उषाः । ददातु । सुग्म्यम्
ये । चित् । हि । त्वाम् । ऋषयः । पूर्वे । ऊतये । जुहूरे । अवसे । महि । सा । नः । स्तोमान् । अभि । गृणीहि । राधसा । उषः । शुक्रेण । शोचिषा
उषः । यत् । अद्य । भानुना । वि । द्वारौ । ऋणवः । दिवः । प्र । नः । यच्छतात् । अवृकम् । पृथु । छर्दिः । प्र । देवि । गो--मतीः । इषः
सम् । नः । राया । बृहता । विश्व-पेशसा । मिमिक्ष्व । सम् । इळाभिः । आ । सम् । द्युम्नेन । विश्व-तुरा । उषः । महि । सम् । वाजैः । वाजिनी-वति
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0