भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.47

1.47.1

॥35॥.
-र्व्_1:4।1-
(र्व्_1,47)
अयम् । वाम् । मधुमत्-तमः । सुतः । सोमः । ऋत-वृधा । तम् । अश्विना । पिबतम् । तिरः-अह्न्यम् । धत्तम् । रत्नानि । दाशुषे

1.47.2

त्रि-वन्धुरेण । त्रि-वृता । सु-पेशसा । रथेन । आ । यातम् । अश्विना । कण्वासः । वाम् । ब्रह्म । कृण्वन्ति । अध्वरे । तेषाम् । सु । शृणुतम् । हवम्

1.47.3

अश्विना । मधुमत्-तमम् । पातम् । सोमम् । ऋत-वृधा । अथ । अद्य । दस्रा । वसु । बिभ्रता । रथे । दास्वांसम् । उप । गच्छतम्

1.47.4

त्रिष्-सधस्थे । बर्हिषि । विश्व-वेदसा । मध्वा । यज्ञम् । मिमिक्षतम् । कण्वासः । वाम् । सुत-सोमाः । अभि-द्यवः । युवाम् । हवन्ते । अश्विना

1.47.5

याभिः । कण्वम् । अभिष्टि-भिः । प्र । आवतम् । युवम् । अश्विना । ताभिः । सु । अस्मान् । अवतम् । शुभः । पती इति । पातम् । सोमम् । ऋत-वृधा

1.47.6

॥1॥.
-र्व्_1:4।2-
सु-दासे । दस्रा । वसु । बिभ्रता । रथे । पृक्षः । वहतम् । अश्विना । रयिम् । समुद्रात् । उत । वा । दिवः । परि । अस्मे इति । धत्तम् । पुरु-स्पृहम्

1.47.7

यत् । नासत्या । परावति । यत् । वा । स्थः । अधि । तुर्वशे । अतः । रथेन । सु-वृता । नः । आ । गतम् । साकम् । सूर्यस्य । रश्मि-भिः

1.47.8

अर्वाञ्चा । वाम् । सप्तयः । अध्वर-श्रियः । वहन्तु । सवना । इत् । उप । इषम् । पृञ्चन्ता । सु-कृते । सु-दानवे । आ । बर्हिः । सिदतम् । नरा

1.47.9

तेन । नासत्या । आ । गतम् । रथेन । सूर्य-त्वचा । येन । शश्वत् । ऊहथुः । दाशुषे । वसु । मध्वः । सोमस्य । पीतये

1.47.10

उक्थेभिः । अर्वाक् । अवसे । पुरुवसूइतिपुरु-वसू । अर्कैः । च । नि । ह्वयामहे । शश्वत् । कण्वानाम् । सदसि । प्रिये । हि । कम् । सोमम् । पपथुः । अश्विना

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc