ऋग्वेदसंहिता, पदपाठ · अध्याय 1.46
॥32॥.
-र्व्_1:3।33-
(र्व्_1,46)
एषो इति । उषाः । अपूर्व्या । वि । उच्छति । प्रिया । दिवः । स्तुषे । वाम् । अश्विना । बृहत्
या । दस्रा । सिन्धु-मातरा । मनोतरा । रयीणाम् । धिया । देवा । वसु-विदा
वच्यन्ते । वाम् । ककुहासः । जूर्णायाम् । अधि । विष्टपि । यत् । वाम् । रथः । वि-भिः । पतात्
हविषा । जारः । अपाम् । पिपर्ति । पपुरिः । नरा । पिता । कुटस्य । चर्षणिः
आदारः । वाम् । मतीनाम् । नासत्या । मत-वचसा । पातम् । सोमस्य । धृष्णु-या
॥33॥.
-र्व्_1:3।34-
या । नः । पीपरत् । अश्विना । ज्योतिष्मती । तमः । तिरः । ताम् । अस्मे इति । रासाथाम् । इषम्
आ । नः । नावा । मतीनाम् । यातम् । पाराय । गन्तवे । युञ्जाथाम् । अश्विना । रथम्
अरित्रम् । वाम् । दिवः । पृथु । तीर्थे । सिन्धूनाम् । रथः । धिया । युयुज्रे । इन्दवः
दिवः । कण्वासः । इन्दवः । वसु । सिन्धूनाम् । पदे । स्वम् । वव्रिम् । कुह । धित्सथः
अभूत् । ओं इति । भाः । ओं इति । अंशवे । हिरण्यम् । प्रति । सूर्यः । वि । अख्यत् । जिह्वया । असितः
॥34॥.
-र्व्_1:3।35-
अभूत् । ओं इति । पारम् । एतवे । पन्था । ऋतस्य । साधु-या । अदर्शि । वि । स्रुतिः । दिवः
तत्-तत् । इत् । अश्विनोः । अवः । जरिता । प्रति । भूषति । मदे । सोमस्य । पिप्रतोः
वावसाना । विवस्वति । सोमस्य । पीत्या । गिरा । मनुष्वत् । शम्भूइतिशम्-भू । आ । गतम्
युवोः । उषाः । अनु । श्रियम् । परि-ज्मनोः । उप-आचरत् । ऋता । वनथः । अक्तु-भिः
उभा । पिबतम् । अश्विना । उभा । नः । शर्म । यच्छतम् । अविद्रियाभिः । ऊतिभिः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0