भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.45

1.45.1

॥30॥.
-र्व्_1:3।31-
(र्व्_1,45)
त्वम् । अग्ने । वसून् । इह । रुद्रान् । आदित्यान् । उत । यज । सु-अध्वरम् । जनम् । मनु-जातम् । घृत-प्रुषम्

1.45.2

श्रुष्टी-वानः । हि । दाशुषे । देवाः । अग्ने । विचेतसः । तान् । रोहित्-अश्व । गिर्वणः । त्रयः-त्रिंशतम् । आ । वह

1.45.3

प्रियमेध-वत् । अत्रि-वत् । जात-वेदः । विरूप-वत् । अङ्गिरस्वत् । महि-व्रत । प्रस्कण्वस्य । श्रुधि । हवम्

1.45.4

महि-केरवः । ऊतये । प्रिय-मेधाः । अहूषत । राजन्तम् । अध्वराणाम् । अग्निम् । शुक्रेण । शोचिषा

1.45.5

घृत-आहवन । सन्त्य । इमाः । ओं इति । सु । श्रुधि । गिरः । याभिः । कण्वस्य । सूनवः । हवन्ते । अवसे । त्वा

1.45.6

॥31॥.
-र्व्_1:3।32-
त्वाम् । चित्रश्रवः-तम । हवन्ते । विक्षु । जन्तवः । शोचिः-केशम् । पुरु-प्रिय । अग्ने । हव्याय । वोळ्हवे

1.45.7

नि । त्वा । होतारम् । ऋत्विजम् । दधिरे । वसुवित्-तमम् । श्रुत्-कर्णम् । सप्रथः-तमम् । विप्राः । अग्ने । दिविष्टिषु

1.45.8

आ । त्वा । विप्राः । अचुच्यवुः । सुत-सोमाः । अभि । प्रयः । बृहत् । भाः । बिभ्रतः । हविः । अग्ने । मर्ताय । दाशुषे

1.45.9

प्रातः-याव्नः । सहः-कृत । सोम-पेयाय । सन्त्य । इह । अद्य । दैव्यम् । जनम् । बर्हिः । आ । सादय । वसो इति

1.45.10

अर्वाञ्चम् । दैव्यम् । जनम् । अग्ने । यक्ष्व । सहूति-भिः । अयम् । सोमः । सु-दानवः । तम् । पात । तिरः-अह्न्यम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc