ऋग्वेदसंहिता, पदपाठ · अध्याय 1.44
॥27॥.
-र्व्_1:3।28-
(र्व्_1,44)
अग्ने । विवस्वत् । उषसः । चित्रम् । राधः । अमर्त्य । आ । दाशुषे । जात-वेदः । वह । त्वम् । अद्य । देवाम् । उषः-बुधः
जुष्टः । हि । दूतः । असि । हव्य-वाहनः । अग्ने । रथीः । अध्वराणाम् । स-जूः । अश्वि-भ्याम् । उषसा । सु-वीर्यम् । अस्मे इति । धेहि । श्रवः । बृहत्
अद्य । दूतम् । वृणीमहे । वसुम् । अग्निम् । पुरु-प्रियम् । धूम-केतुम् । भाः-ऋजीकम् । वि-उष्टिषु । यज्ञानाम् । अध्वर-श्रियम्
श्रेष्ठम् । यविष्ठम् । अतिथिम् । सु-आहुतम् । जुष्टम् । जनाय । दाशुषे । देवान् । अच्छ । यातवे । जात-वेदसम् । अग्निम् । ईळे । वि-उष्टिषु
स्तविष्यामि । त्वाम् । अहम् । विश्वस्य । अमृत । भोजन । अग्ने । त्रातारम् । अमृतम् । मियेध्य । यजिष्ठम् । हव्य-वाहन
॥28॥.
-र्व्_1:3।29-
सुशंसः । बोधि । गृणते । यविष्ठ्य । मधु-जिह्वः । सु-आहुतः । प्रस्कण्वस्य । प्र-तिरन् । आयुः । जीवसे । नमस्य । दैव्यम् । जनम्
होतारम् । विश्व-वेदसम् । सम् । हि । त्वा । विशः । इन्धते । सः । आ । वह । पुरु-हूत । प्र-चेतसः । अग्ने । देवान् । इह । द्रवत्
सवितारम् । उषसम् । अश्विना । भगम् । अग्निम् । वि-उष्टिषु । क्षपः । कण्वासः । त्वा । सुत-सोमासः । इन्धते । हव्य-वाहम् । सु-अध्वर
पतिः । हि । अध्वराणाम् । अग्ने । दूतः । विशाम् । असि । उषः-बुधः । आ । वह । सोम-पीतये । देवान् । अद्य । स्वः-दृशः
अग्ने । पूर्वाः । अनु । उषसः । विभावसो इतिविभावसो । दीदेथ । विश्व-दर्शतः । असि । ग्रामेषु । अविता । पुरः-हितः । असि । यज्ञेषु । मानुषः
॥29॥.
-र्व्_1:3।30-
नि । त्वा । यज्ञस्य । साधनम् । अग्ने । होतारम् । ऋत्विजम् । मनुष्वत् । देव । धीमहि । प्र-चेतसम् । जीरम् । दूतम् । अमर्त्यम्
यत् । देवानाम् । मित्र-महः । पुरः-हितः । अन्तरः । यासि । दूत्यम् । सिन्धोः-इव । प्र-स्वनितासः । ऊर्मयः । अग्नेः । भ्राजन्ते । अर्चयः
श्रुधि । श्रुत्-कर्ण । वह्नि-भिः । देवैः । अग्ने । सयाव-भिः । आ । सीदन्तु । बर्हिषि । मित्रः । अर्यमा । प्रातः-यावानः । अध्वरम्
शृण्वन्तु । सोमम् । मरुतः । सु-दानवः । अग्नि-जिह्वाः । ऋत-वृधः । पिबतु । सोमम् । वरुणः । धृत-व्रतः । अश्वि-भ्याम् । उषसा । स-जूः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0