ऋग्वेदसंहिता, पदपाठ · अध्याय 1.43
॥25॥.
-र्व्_1:3।26-
(र्व्_1,43)
कत् । रुद्राय । प्र-चेतसे । मीळ्हुः-तमाय । तव्यसे । वोचेम । शम्-तमम् । हृदे
यथा । नः । अदितिः । करत् । पश्वे । नृ-भ्यः । यथा । गवे । यथा । तोकाय । रुद्रियम्
यथा । नः । मित्रः । वरुणः । यथा । रुद्रः । चिकेतति । यथा । विश्वे । स-जोषसः
गाथ-पतिम् । मेध-पतिम् । रुद्रम् । जलाष-भेषजम् । तत् । शम्-योः । सुम्नम् । ईमहे
यः । शुक्रः-इव । सूर्यः । हिरण्यम्-इव । रोचते । श्रेष्ठः । देवानाम् । वसुः
॥26॥.
-र्व्_1:3।27-
शन् । नः । करति । अर्वते । सु-गम् । मेषाय । मेष्ये । नृ-भ्यः । नारि-भ्यः । गवे
अस्मे इति । सोम । श्रियम् । अधि । नि । धेहि । शतस्य । नृणाम् । महि । श्रवः । तुवि-नृम्णम्
मा । नः । सोम-परिबाधः । मा । अरातयः । जुहुरन्त । आ । नः । इन्दो इति । वाजे । भज
याः । ते । प्र-जाः । अमृतस्य । परस्मिन् । धामन् । ऋतस्य । मूर्धा । नाभा । सोम । वेनः । आभूषन्तीः । सोम । वेदः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0