ऋग्वेदसंहिता, पदपाठ · अध्याय 1.42
॥23॥.
-र्व्_1:3।24-
(र्व्_1,42)
सम् । पूषन् । अध्वनः । तिर । वि । अंहः । वि-मुचः । नपात् । सक्ष्व । देव । प्र । नः । पुरः
यः । नः । पूषन् । अघः । वृकः । दुःशेव । आदिदेशति । अप । स्म । तम् । पथः । जहि
अप । त्यम् । परि-पन्थिनम् । मुषीवाणम् । हुरः-चितम् । दूरम् । अधि । स्रुतेः । अज
त्वम् । तस्य । द्वयाविनः । अघ-संसस्य । कस्य । चित् । पदा । अभि । तिष्ठ । तपुषिम्
आ । तत् । ते । दस्र । मन्तु-मः । पूषन् । अवः । वृणीमहे । येन । पितॄन् । अचोदयः
॥24॥.
-र्व्_1:3।25-
अधः । नः । विश्व-सौभग । हिरण्यवाशीमत्-तम । धनानि । सु-सना । कृधि
अति । नः । सश्चतः । नय । सु-गा । नः । सु-पथा । कृणु । पूषन् । इह । क्रतुम् । विदः
अभि । सु-यवसम् । नय । न । नव-ज्वारः । अध्वने । पूषन् । इह । क्रतुम् । विदः
शग्धि । पूर्धि । प्र । यंसि । च । शिशीहि । प्रासि । उदरम् । पूषन् । इह । क्रतुम् । विदः
न । पूषणम् । मेथामसि । सूक्तैः । अभि । गृणीमसि । वसूनि । दस्मम् । ईमहे
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0