भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.41

1.41.1

॥21॥.
-र्व्_1:3।22-
(र्व्_1,41)
यम् । रक्षन्ति । प्र-चेतसः । वरुणः । मित्रः । अर्यमा । नु । चित् । सः । दभ्यते । जनः

1.41.2

यम् । बाहुताइव । पिप्रति । पान्ति । मर्त्यम् । रिषः । अरिष्टः । सर्वः । एधते

1.41.3

वि । दुः-गा । वि । द्विषः । पुरः । घ्नन्ति । राजानः । एषाम् । नयन्ति । दुः-इता । तिरः

1.41.4

सु-गः । पन्था । अनृक्षरः । आदित्यासः । ऋतम् । यते । न । अत्र । अव-खादः । अस्ति । वः

1.41.5

यम् । यज्ञम् । नयथ । नरः । आदित्याः । ऋजुना । पथा । प्र । वः । सः । धीतये । नशत्

1.41.6

॥22॥.
-र्व्_1:3।23-
सः । रत्नम् । मर्त्यः । वसु । विश्वम् । तोकम् । उत । त्मना । अच्छ । गच्छति । अस्तृतः

1.41.7

कथा । राधाम । सखायः । स्तोमम् । मित्रस्य । अर्यम्णः । महि । प्सरः । वरुणस्य

1.41.8

मा । वः । घ्नन्तम् । मा । शपन्तम् । प्रति । वोचे । देव-यन्तम् । सुम्नैः । इत् । वः । आ । विवासे

1.41.9

चतुरः । चित् । ददमानात् । बिभीयात् । आ । नि-धातोः । न । दुः-उक्ताय । स्पृहयेत्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc